________________
कार्युः, आगमे निषिद्धस्यात्। ऋजुत्वात्तैस्सम्यग् मिथ्यादुष्कृतं दत्तम् । ततोऽन्यदा तथैव नटी नृत्यन्ती N| विलोकयन्तः स्थिताः । नोदितास्ते जडत्वाचुर्युष्माभिर्नटवन्नटी निषिद्धा नास्ति । रागागहेतुत्वान्नटनिषेधे
नटीनिषिद्धैवेति गुरुभिरुक्ते तैमिय्यादुष्कृतं दत्तम् । ___ अत्रान्योऽपि दृष्टान्तः एकः कश्चित्कुङ्कणदेशीयो वणिक् वृद्धत्वे स्वजनमोहं त्यक्त्वा प्रव्रजितः । स | चैकदा ईर्यापथिकीकायोत्सर्गे बहुवेलं स्थितः । किं कारणमिति गुरुभिरुक्ते 'जीवदयाध्याते'त्यूचे। कथमि त्युक्ते सोऽप्याह-'गृहे वसद्भिरस्माभिः क्षेत्रे वृक्षनिषूदनादिपूर्व उतानि धान्यानि बहुलीभवन्ति स्म, a साम्प्रतं मत्पुत्रा अकुशला निश्चिन्ताः सम्यग् न विदन्ति तेन ते दुःखिता मरिष्यन्तीति' तेन स्वाभिप्राये प्रोक्ते 'जीवघातादि विना कृषि!त्पद्यते' इति त्वया दुर्ध्यातमित्युफ्ते गुरुणा ऋजुत्वात्स मिथ्या- IN दुष्कृतं दत्तवान् । ॥ इति कुकणकसाधुदृष्टान्तः॥ एतेषां च जडत्वाविशुद्धिर्दुःसाध्या।
तथा वीरतीर्थे तु वक्रजडत्वाद् व्रतादिपालनं तद्विशुद्धिश्चेत्युभयमपि दुःसाध्यम् । अत्रापि सम्प्रदायव्यंकेचित्साधवो नटं वीक्ष्य वेलातिक्रमेण समायाताः सूरिभिः शब्दिताः-कथं वेलातिक्रमोऽजनि' तथैव तैः प्रोक्ते निषिद्धाः। पुनरन्यदा नटी नृत्यमानां वीक्ष्यागताः, पृष्टा उपालब्धाश्च गुरुणा । वक्रजड- | त्वादूचुर्युष्माभिर्नट एव निषिद्धो न पुनर्नटीति नास्माभिमा॑तमित्युक्त्वा सपालब्धाः प्रत्युत गुरव एव । म __तथा कोऽपि दुर्विनीतः श्रेष्ठिपुत्रः स्वजनादिसमक्षं पित्रा शिक्षितो 'नहि वृद्धानां प्रत्युत्तरं देयमिति।। ततोऽसौ सर्वेषु बहिर्गतेषु कदाचिद् द्वारं दत्वा स्थितः । प्रत्यागतैस्तैारोद्घट्टनायोक्तोऽपि नोद्घाटयति।