SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ रोगे तं निवारयति मदीयं रसायनं, असति च रोगे उदीरयति । इति श्रुत्वास सिंहोत्थापनेनानेनालमित्युक्त्वा चासो राज्ञा निषिद्धः।। वितीयः प्राह-सतिरोगे तं निवारयति, न पुनस्तं प्रकटीकरोति,' भस्मनिहुतमित्युदीर्यसोऽपि प्रतिक्रुिद्धः। तृतीयस्त्वाह-मदीयं रसायनं सति रोगे रोगं निवर्तयति, अन्यथा त्वमृतवत्सर्वधातूनां पुष्टिकृनोत्तरकालं च रोगाः प्रादुर्भवन्ति' । इत्युक्ते स एव राज्ञा बहुमानितस्तथैतत्कल्पाराधनं तृतीयरसायनप्रायम् । Ke यथोक्तम्एवं एसो कप्पो, दोसाभावे वि कज्जमाणो अ । सुंदरभावाओ खलु, चारित्तरसायणं होई ॥१॥ तथैतेषां दशानां कल्पानां नियतानियतविभागकरणे कारणं तत्कालीना मनुजा एव । यतःM“पुरिमा उज्जुजडाओ, वक्वजड्डाओपच्छिमा। मज्झिमा उज्जुपन्नाओ, तेण धम्मे दुहा कए ॥ १॥ - पुरिमाण दुविसुज्झो, चरिमाणं दुरणुपालओ । कप्पो मज्झिमगाणं तु, सुविसुज्झो सुपालओ॥२॥ | तत्र ऋषभतीर्थे ऋजुजडत्वेन व्रतादिनिर्वाहित्वेऽपि नटनर्तकी नृत्यावलोककमुनिदृष्टान्तप्रदर्शितेन जडत्वेन दुःसाध्या विशुद्धिः। - अत्र सम्प्रदायः-श्रीऋषभतीर्थे केचन साधवो गुरुपार्धात् शरीरचिन्तार्थगत्वाआगताः।उक्ताश्च गुरुभिः'कथं महतीवेला लग्ना'। ततस्तैरुक्तं-'नटं नृत्यन्तं प्रेक्षमाणाः स्थिताः,' गुरुभिस्ते शिक्षिता मा पुनरेवं
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy