________________
कल्प
| निवासे' इति गणसम्बन्धी वाधातुः, इह हि पर्युषणा द्विविधा गृहिज्ञाताऽज्ञातभेदात्, तत्र गृहिणामज्ञाता दीपिका | यस्यां वर्षायोग्यपीठफलकादौ प्राप्ते कल्पोक्तद्रव्यक्षेत्रकालभावस्थापना क्रियते, सा चाषाढपूर्णिमास्यां । योग्यक्षेत्राऽभावे तु पश्चकपश्चकदिनवृद्धधा दशपर्वतिथिक्रमेण यावत् श्रावणकृष्णपञ्चदश्यामेवेति । - गृहिज्ञाता तुबेधा सांवत्सरिककृत्यविशिष्टा गृहिज्ञातमात्रा च तत्र सांवत्सरिककृत्यानि
सांवत्सरिक प्रतिक्रमणं १ लुञ्चनं २ अष्टमं तपः ३ चैत्यपरिपाटी ४ सङ्घक्षामणं ५ एतत्कृत्यविशिष्टा च भाद्रसितपश्चभ्यां कालकाचार्यादेशाच्च चतुया जनप्रकटं कार्या, द्वितीयात्वभिवर्द्धितवर्षे चतुर्मासकदिनादारभ्य विंशत्या दिनैर्वयमत्र स्थिताः स्म इति पृच्छता गृहस्थानां पुरो | वदन्ति तत्तु गृहिज्ञातमात्रमेव, तदपि जैनटिप्पनकानुसारेण यतस्तत्र युगमध्ये पोषो युगान्ते चाषाढ एव वर्द्धते नान्ये मासाः, तच्चाधुना सम्यग् न ज्ञायते, अतः पश्चाशतैव दिनैः पर्युषणा सङ्गतेति वृद्धाः, अत्र कश्चित् शङ्कते, ननु भोः श्रावणवृद्धौ श्रावणसितचतुर्थ्यामेव पर्युषणापर्व युक्तं न पुनर्भाद्रपदसितचतुर्थ्या दिनानामशीत्यापत्त्या, “समणे भगवं महावीरे वासाणं सवीसह राए मासे विइकते वासावासंघ पज्जोसवेइ" त्ति श्रीकल्पसूत्रादिप्रवचनबाधा स्यादिति चेत् ? तर्हि आश्विनवृद्धावाश्विनमासे एव चतुर्दश्यां चातुर्मासककृत्यं कर्तव्यं। कार्तिकसितचतुर्दश्यां हि शतदिनापत्त्या, "समणे भगवं महावीरेवासाणं सवीसइराए मासे विइकंते सत्तरिराइंदिएहिं सेसेहिं वासावासं पज्जोसवेह" ति श्रीसमवायाङ्गादिप्रवचनबाधा