________________
विजयान्तिके व्रतानि प्रतिपद्य तदादेशात् कोशागृहे चतुर्मासकमस्थात्, तां च हावभावपरामपि प्रतियोध्य | गुरुपार्श्वमुपागतो, गुरुभिस्तु 'दुष्करदुष्करकारक,' इति सङ्घसमक्षं प्रशंसितस्तद्वचसा च पूर्वाऽऽयाता सिंहगुहाऽहिबिलकूपकाष्ठस्थापिमी मुनित्रयी दूना ! आगामिवर्षाकाले स्थूलभद्रमत्सरेण सिंहगृहास्थायी गुरुणा वार्यमाणोऽपि कोशागृहे गतः, तां च दिव्यरूपां दृष्ट्वा चलचित्तस्तद्वचसा वर्षाकाले नेपालदेशे गत्वा तद्देशाधिपतेस्सकाशाद्रत्नकम्बलं लात्वा तस्या आपयत्, सा च तं खाले क्षित्वा तं प्रत्यबोधयत् , ततोऽसौ गुरुमुपागत्य प्रोवाचस्थूलभद्रः स्थूलभद्रः स एकोऽखिलसाधुषु । युक्तं दुष्करदुष्कर-कारको गुरुणा जगे ॥१॥
स्थूलभद्योधिता कोशाऽपि स्वयाणसंधानाऽऽकृष्टाऽऽम्रलुम्बीसमानयनगर्षितं रथकारं योधयितुं सर्षपराशिस्थसूच्यग्रपुष्पोपरि नृत्यमाना प्राहन दुक्करं अंबयलंबितोडणं, न दुकरं सिरिसक्नच्चिआए। तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवर्णमि वुच्छो ॥१॥ कवयोऽपि| गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः। हर्येऽतिरम्ये युवतिजनाऽन्तिके, वशी स एकः शकडालनन्दनः२/४ | योऽनौ प्रविष्टोऽपि हि नैव दग्धः, छिन्नोन खड्गाग्रगतपचारः। कृष्णाहिरन्धेऽप्युषितो नदष्टो, नाक्तोऽञ्जनागारनिवास्यहो यः॥३ वेश्या रागवती सदा तदनगा षडभीरसैोजनम, शुभ्र धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः।