________________
कल्प
दीपिका
॥१४॥
गुरुणा च भद्रबाहोः पदे दत्ते रुष्टा वराहो दिजवेषं विधाय निमित्तैर्जीवति, वक्ति च लोके यदहमन्यदा |
स्थविराक्वाऽपि सिंहलग्नममण्डयम् स्वापसमये तमार्जनस्मृत्या लग्नभक्त्या च तत्र गतस्ततस्तल्लग्नोपरि सिंह दृष्ट्वाऽपि तद्धः करं क्षिप्त्वा मया लग्नं भग्नं । ततस्तल्लग्नस्वामी सूर्य प्रत्यक्षीभूय सर्वग्रहचारं ममाऽदर्शयत्, ततोऽहं सर्व जानामीति । अन्यदा राज्ञः पुरोऽवक् एतत्कुण्डालकमध्ये द्विपश्चाशत् पलमानो मत्स्यः पतिष्यति, गुरुणा च प्रान्ते साढेकपश्चाशत्पलमानः पतिष्यतीत्युक्ते गुरुवचः प्रमाणीभूतं । तथैवाऽन्यदा निजपुत्रस्य [कचिन्नृपपुत्रस्य] शतायुर्वर्त्तने गुरुणा च बिडालिकातः सप्तमे दिने मृत्युरस्येति प्रतिपादिते तेन सर्वा विडालिकाः स्वगृहानिकाशिता गवाक्षादिकमपि स्थगितम् । बिडालिकाऽऽकारवदनालापातेन बालस्य मृत्यौ तस्य निन्दा गुरोानस्य प्रशंसा जातेति । कोपात्तथाविधं कष्टं कृत्वा व्यन्तरीभूय सङ्घ अशिवादिना उपसर्गयन् गुरुणा च उपसर्गहरं कृत्वा तत्कृता मारिय॑वारि उक्तं चउवसग्गहरं थुत्तं, काऊणं जेण संघकल्लाणं । करुणापरेण विहिअं; स भद्दबाहू गुरू जयउ॥१॥ थेरस्स णं अजसंभूइविजयस्स माढरसगोत्तस्स अंतेवासी थेरे अजथूलभद्दे गोयमसगुत्ते॥
व्याख्या-अज्जथुलभद्दे त्ति-पाटलीपुरे नन्दराज्ञः शकडालमन्त्री लक्ष्मीदेवी कान्ता तयोः पुत्रौ स्थूलभद्रसिरीयाऽभिधानौ सप्त च पुत्र्यस्तत्र स्थूलभद्रो द्वादशवर्षाणि कोशागृहे स्थितो, वररुचिप्रयोगापितरि मृते नन्दराज्ञा चाऽऽकार्य प्रधानमुद्राऽऽदाने पितृमृत्युचेतसि विचिन्त्य स्वयं दीक्षा जग्राह । पश्चात् सम्भूत
॥१४२॥