________________
विधयाग्यशिष्याऽदर्शने परतीर्थेषु तदुग्यागे शय्यंभवं भट्ट यज्ञकर्म कुर्वाणं राजगृहे ददर्श। ततस्तत्र गत्या । साधुभ्यां 'अहो कष्टमहो कष्टम्' इति वचनं श्रावितः, ततो राजतेजो दर्शनपूर्व तेन ब्राह्मणानां तत्त्वं पृष्टं,
तैश्च भीतैः प्रतिमा दर्शिता ततः प्रतियुद्धः, सगर्भस्त्राधनादि त्यक्त्वा दीक्षा जग्राह, क्रमेण श्रीप्रभवस्वामी स्वपदे श्रीशय्यंभवं न्यस्य देवलोकमलश्चकार । श्रीशय्यंभवसूरेः साधानमुक्तस्त्रिया च मनकाख्यः पुत्रः प्रसूतः, स च पितरं द्रष्टुं समागतस्तैश्च दीक्षितस्तस्य च स्वल्पमायुरागमादधिगम्य तद्विताय श्रीदशवैकालिकं नियूढं, अधीतं च तत्तेन षड्भिर्मासैरेतावता च तस्याऽऽयुरपि प्राप्त, ततः स्वयं गुरुणा नियामिता, देवत्वं प्राप्तस्ततो गुरुचक्षुषि आनन्दाश्रुपाते श्रीयशोभद्रसूरिणा तत्कारणं पृष्टेन गुरुणा यथाऽऽवस्थं प्रोक्तं । ततः सङ्कविज्ञप्त्या श्रीशय्यंभवमूरिर्दशवकालिक सूत्रं रक्षितवान्, क्रमेण च श्रीयथोभद्रस्वामिनं स्वपदे संस्थाप्य श्रीवीरादष्टानवति ९८ वर्षेः श्रीशय्यंभवस्वामी स्वर्मलञ्चक्रे । संखित्तवायणाए त्ति संक्षिप्तवाचनायां श्रीयशोभद्रस्वामी तु श्रीभद्रबाहुसंभूतविजयौ पट्टे न्यस्य स्वर्गतः । अज्जजसभदाओ अग्गओएवं थेरावली भणिया, तंजहा-थेरस्सणंअज्जजसभहस्स तुंगियायणसगोत्तस्स अंतेवासी दुवे थेरा, थेरे अज्जसंभूइविजए माढरसगुत्ते थेरे अज्जभद्दबाहु पाईणसगुत्ते। व्याख्या-तत्र श्रीभद्रबाहुः सङ्घोपसर्गशान्तये उपसर्गहरं स्तोत्रं चक्रे तचैवंप्रतिष्ठानपुरवासिनौ वराहमिहिरभद्रबाहुनामानौ सहोदरौ विजौ, श्रीयशोभद्रसूरिपार्श्वे प्रबजितो,