SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ पिका स्थविराशादष्टौ कन्याः परिणीय रात्रौ ताः प्रत्यबोधयत् , चतुःशतनवनवतिचौरपरिवृत्तं प्रभवं चौरराजमपि प्रत्य- वली बोधयत् । प्राप्तश्च नवनवतिकाञ्चनकोटीः परिहृत्य स्वपितृमातृ-भार्याऽष्टक-तन्मातृपित्रादिपरिकरितः श्री सुधर्मस्वामिपाचे प्रव्रजितः । तदनु च__"पितृनाऽऽपृच्छय चाऽन्येद्युः प्रभवोऽपि समागतः, जम्बूकुमारमनुयान परिव्रज्यामुपाददे " ॥१॥ इति परिशिष्टपर्ववचनात् कियता कालेन प्रभवोऽपि एकोनपश्चाशतचौरयुक् प्रव्रजितः अत्र कविःजम्बूसमस्तलारक्षो, न भूतो न भविष्यति । शिवाध्ववाहकान् साधून, चौरानपि चकार यः ॥१॥ प्रभवोऽपि प्रभुर्जीयाच्चौर्येण हरता धनम् । लेभेऽनय चौर्यहरं रत्नत्रितयमद्भुतम् ॥ २॥ श्रीजम्बूस्वामी च श्रीप्रभवं स्वपदे न्यस्य वीराचतुःषष्टिवर्षे सिद्धः बारस वरिसेहिं गोयमु, सिद्धो बीराउ वीसहिं सुहुम्मो। चउसठ्ठीए जम्बू, वुच्छिन्ना तत्थ दस टाणा ॥ १ ॥ मण १ परमोहि २ पुलाए ३, आहारग ४ खवग ५ उवसमे ६ कप्पे ७ । संजमतिअ४ केवल ९ सिज्झणा १० यजंबूमि वुच्छिन्ना ॥२॥ अत्र कविः-लोकोत्तरं हि सौभाग्यं जम्बूनाम महामुनेः। अद्यापि यं पति प्राप्य, शिवश्री ऽन्यमिच्छति ॥५॥ नवाणवइकंचणकोडिआओ, जेणुज्झिा अट्ठय बालियाओ।सोजंबुसामी पढमो मुणीणं, अपच्छिमो नंदउ केवलीणं ॥६॥ अन्यदा श्रीप्रभवस्वामी स्वपट्टयोग्यशिष्याऽऽभावे गणे श्रीसङ्घ चोपयोगं दत्तवान् । तत्र च तथा IA॥१४॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy