SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सव्वे एए समणस्स भगवओ महावीरस्स इकारस गणहरा दुवालसंगिणो चउदसपुव्विणो सम्मत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव सव्वदुक्खपणा, थेरे इंदभूई ये अज्जसुहुम्मे य सिद्धिं गए महावीरे पच्छा दुन्नि वि थेरा परि निव्वया । जे इमे अज्जताए समणा निग्गंथा विहति, एए णं सवे अज्जसुहम्मस्स अणगारस्स आवञ्चिज्जा अवसेसा गणहरा निरवच्चा वुच्छिन्ना ॥ ४ ॥ व्याख्या—सव्वे एए इत्यादि तत्र द्वादशाङ्गिनः - आचाराङ्गादिदृष्टिवादान्तश्रुतवन्तः स्वयं प्रणयनात्, 'चतुर्द्दशपूर्विणः प्राग् विशेषणेनैव चतुर्द्दशपूर्वित्वे सिद्धे यत्पुनः पूर्वाऽऽदानं तदङ्गेष्वेषां प्राधान्योक्त्यै, प्राधान्यं च पूर्वप्रणयनादनेक विद्यामन्त्राद्यर्थमयत्वात् महाप्रमाणाच्च । द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्यादत आह- समस्तगणिपिटकधारकाः- गणोऽस्याऽस्तीति गणी - भावाचार्यस्तस्य पिटकमिव रत्नादिकरण्डकमिव गणिपिटक - द्वादशाङ्गी तदपि न देशतः स्थूलभद्रस्येव किन्तु समस्तं - सर्वाक्षरसन्निपातित्वात् तद्धारयन्ति सूत्रतोऽर्थतश्च ये ते तथा । एषु च नवगणधराः प्रभौ विजयमाने मोक्षं गताः, इन्द्रभूतिसुधर्माणौ तु जिने सिद्धे सिद्धाविति । आर्यतया अद्यतन युगे वा, 'आवचिज्जा' अपत्यानि - तत्संततिजा इत्यर्थः । निरपत्याः- शिष्यसंतानरहिताः स्वस्वमरणकाले स्वस्वगणस्य सुधर्मा - स्वामिनि निसर्गात् । 1
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy