________________
कल्प दीपिका ॥१३५॥
पूआवसरे सरिसो, दिट्ठो चक्कस्स तंसि भरहेण । विसमा हु विषयतण्हा, गुरुआणावि कुणइ मइमोहं ॥२०॥ ति
जिनचरित्रा
अधिकारः तायंमि पूइए चकं पूइअं, पूअणारिहो ताओ । इह लोइअं तु चकं, परलोअमुहावहो ताओ ॥ २१ ॥
इति विचिन्त्योचितचतुरः श्रीभरतभूधरः स्वामिविरहोत्थशोकादजस्रश्रवदश्रुपूरोत्पन्नपटलछन्नचक्षुषा प्रतिदिनं भगवत्प्रवृत्तिं प्रच्छन्त्या पितामह्या श्रीमरुदेव्यासह हस्त्यारूढो विभुं वन्दितुं सपरिच्छदश्चचाल इतश्च
भरतेन समं हस्त्याऽऽरूढा देवजयध्वनि । दुन्दुभि देशनां श्रुत्वा, हृष्टा श्रीमरुदेव्यभूत ॥ २२ ॥ हर्षाश्रुभिः समं नील-पटलक्षयतः क्षणात् । वप्रछनत्रयादिश्रीदर्शनादित्यचिन्तयत् ॥ २३ ॥ धिक् मोहविकलान् जीवान् , स्वार्थ स्निह्यन्ति जन्तवः । मोहोऽयं परमं दुःखं, मोहान्मे चक्षुषी गते ॥ २४ ॥ वत्सोऽयमीदृशीमृद्धिं, प्राप्तो मां न स्मरत्यपि । प्रेषयत्यपि सन्देशं, नेत्यमोहाऽऽप केवलम् ॥ २५ ॥ अत्र कविः सूनुर्युगादीशसमोन विधे, भ्रान्त्वा क्षितौ येन शरत्सहस्रम् ।यदर्जितं केवलरत्नमय्यं, स्नेहात्तदैवाऽर्थयत् मातुराशु ॥२६॥ | मरुदेवा समा नाऽम्बा, याऽगात् पूर्व किलेक्षितुम् । मुक्तिकन्यां तनुजार्थ, शैवमार्ग खिलं चिरात् ॥२७॥
तता देवैरत्र प्रथमसिद्ध इति तद्वपुः क्षीराब्धौ प्रक्षिप्य महान् महिमा चक्रे । ततो भरतेश्वरः समवसरणवाप्यां स्नात्वा प्रभुं च वन्दे, देशनां चाऽशृणोत्, प्रभोः प्रथमदेशनया भरतपुत्रपौत्राणां बादशशतानि प्रव्रजितानि उक्तं च । पञ्च य पुत्तसयाई भरहस्स य सत्त नत्तुअसयाई । सयराहं पन्वइआ, तमि कुमारा समोसरणे ॥ २८ ॥ ति
॥१३५॥