________________
भुवणं जसेण भयवं रसेण भवणं धणेण परिहत्थो । अप्पा निरुवमसुक्खे, सुपत्तदाणं महग्घविअं ॥ १५ ॥ रिसहेससमं पत्तं, निरवज्जं इक्खुरससमं दाणं । सेअंससमो भावो, हविज्ज जइ मग्गिअं हुज्जा ॥ १६ ॥
इत्यादि वचोभिः श्रीश्रेयांसमभिनन्द्य स्वं स्वं स्थानं जग्मुः । श्री ऋषभस्वामिना च दीक्षामनु संवत्सरेणेक्षुरसेन पारणं कृतं । शेषैस्तु द्वितीयदिने पायसेनेति यदाहु:
संबच्छरेण भिक्खा; लद्धा उसण लोगनाहेण । सेसेहिं बीअदिवसे, लद्धाओ पदमभिक्खाओ ॥ १७ ॥
उसभस्स य पारणए, इक्खुरसो आसि लोगनाहस्स । सेसाणं परमनं, अमयर सरसोवमं आसी ॥ १८ ॥ ति
एकदा विहरन भगवान् तक्षशिलापुरीबाह्योपाने प्रतिमया स्थितो, विज्ञातश्च बाहुबलिना, सर्वद्व प्रातरहं वन्दिष्ये इति विचिन्त्य प्रातर्भगवति प्रस्थिते स वन्दितुं गतः, तत्र स्वामिनमदृष्ट्वा जातशोको महतीमधृतिं विधाय स्वामिनः प्रतिमास्थानेऽष्टयोजनपरिमण्डलं रत्नमयं सहस्रारं धर्मचक्रं चकार । एगं वाससहस्सं ति इदं प्रभोः छाद्मस्थ्यकालमानं, प्रमादकालश्चात्राऽहोरात्रमात्रः यदुक्तंवाससहस्सं तवमाइगरस्स आयरंतस्स जो पुण पमायकालो आहोरत्तं तु संकलिअं ॥ १९ ॥ पुरिमतालसति विनिता शाखापुरस्य पुरिमतालनाम्नः जाणमाणे इत्यादि प्राग्वत् ।
तदा च भरतस्याऽऽयुधशालायां चक्ररत्नमुत्पेदे ततो यमकशमकाख्यपुरुषाभ्यां समकालमेव केवलचक्रोत्पतिभ्यां वर्द्धापितो भरतभूपः किं प्राक् चक्रमहोत्सवं करोम्युत तातकेवलोत्सवमिति क्षणं व्यमृश्यत यदाह