SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका मातरन्तासभ मावी, श्रेयांसस्योदयो महान् । कोऽपीति मन्त्रयित्वा ते, स्वस्ववेश्म योऽप्यगुः ॥ ८॥ जिनचरित्रा लाति श्रीऋषभः किञ्चिन्नेति कोलाहलं नृणाम् । श्रुत्वा गवाक्षतो धावधुवराजः प्रभु प्रति ॥ ९॥ धिकारः प्रभोर्दशनतो जाति-स्मृति प्राप स भाग्यतः । तस्येक्षुरसकुम्भौघ, ढोकयामास कोऽप्यथ ॥ १० ॥ ततः श्रेयांसः प्राह-'भगवन् ! प्रसारय करौ,निस्तारय मां,गृहाण योग्यममुमिक्षुरसं। अत्र कविघटनास्वाम्याह दक्षिणं हस्तं, कथं भिक्षां न लासि भोः । स माह दातृहस्तस्याऽधो भवामि कथं यतः ॥११॥ पूजाभोजनदानशान्तिककला-पाणिग्रहस्थापना । चोक्षमेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् । अथ वामो ब्रूतेवामोऽहं रणसंमुखाडुगणना-वामाङ्गशय्यादिकृत् । धुतादिव्यसनी त्वसौ स तु जगौ, चोक्षोऽस्मि न त्वं शुचिः ॥१२॥ राज्यश्रीर्भवतार्जितार्थिनिवहस्त्यागैः कृतार्थीकृतः। सन्तुष्टोऽस्मि गृहाण दानमधुना तन्वन् दयां दानिषु।। इत्यब्दं प्रतिबोध्य दक्षिणकर, श्रेयांसतः कारयन् । प्रत्यग्रेक्षुरसेन पूर्णमृषभः, पायात्स वः श्रीजिनः ॥ १३ ॥ - ततो भगवता करसंपुटे प्रसारिते बहुभिर्घटैः श्रेयांसस्तमपूरयत्, न च ततो विन्दुमात्रोऽपि रसः ।। पतति, यदुक्तं___ माइज घटसहस्सं, अहवा माइज सागरा सव्वे । एआरिसलद्धीओ, सो पाणीपडिग्गही होइ ॥ १४ ॥ त्ति तदा च तत्र पञ्चदिव्यानि प्रादुर्बभुवुस्तथाहि-वसुधारावृष्टिः १ चेलोत्क्षेपः २व्योग्नि देवदन्दभिः३ गन्धोदकपुष्पवृष्टिः ४ अहोदानमहोदानमित्याकाशे उद्घोषणा चेति ५। तदा च देवागमनमालोक्य भूपादयः सर्वेऽपि लोकास्तत्रागताः श्रेयांसवचनात् ज्ञातदानविधयः ८ ॥१३॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy