SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ उसभो वरवसभगई वित्तूणमभिग्गरं परमघोरं । वोसटुचत्तदेहो, विहरइ गामाणुगामं तु ॥ १ ॥ ततश्च न विभावजण जाणइ, का भिक्खा केरिसा भिक्खायरा । ते भिक्खमलभमाणा, वणमज्झे तावसा जाया ॥२॥ अत्र ते इति कच्छादयो ये प्रभुमनुप्रव्रजिताः, इतश्च कच्छमहाकच्छपुत्रौ नमिविनमिनामानौ भगवतः पालकपुत्रौ दीक्षासमये देशविलोकनार्थ गतावभूतां, तौ च व्यावृतौ स्वपितृपार्श्वमागतौ, ताभ्यां विसृष्ट च भरतमवगणय्य स्वामिसमीपमागत्य च प्रभुं परितः पृथ्यां जलवर्षण सुरभिपुष्पप्रकरं च कृत्वा प्रतिदिनमुभयसन्ध्यं राज्यप्रदो भवेति व्यज्ञपयतां । अन्यदा च धरणेन्द्रो जिनवन्दनार्थमागतस्तौ तथा | याचमानौ दृष्ट्वा जगाद मा भगवन्तं निष्परिग्रहं याचेथाम्, किन्तु अर्हद्भक्त्याऽहमेव युवाभ्यां दास्यामीत्युक्त्वा अष्टचत्वारिंशदिद्यासहस्राणि पाठसिद्धानि ददौ । ततस्तौ धरणेन्द्रोक्त्या परिजनादियुक्तौ विमानारूढ वैताढ्या गत्वा दक्षिणश्रेण्यां पञ्चाशन्नगराणि उत्तरश्रेण्यां षष्ठिर्नगराणि निर्वास्य तस्थतुरिति । अत्र च कल्पकिरणावली का रेणाऽष्टचत्वारिंशद्विद्या दत्ता इति लिखितमस्ति तद्विचार्य आवश्यक वृत्ति - चूर्णि - ऋषभचरित्रादिसकलग्रन्धविरोधादिति । इतश्च भयवं अदीणमणसो, संवच्छरमण (सओ विहरमाणो । कन्नाहिं निमंतिज्जर, वत्थाभरणासणेहिं च ॥ ४ ॥ अथ गजपुरे बाहु-बले: सोमयशा सुतः । श्रेयांस (स्तत्सुतः) स्वप्ने, मेरुं सुधोज्ज्वलं व्यधात् ॥ ५ ॥ कोsपि श्रेयांससाहाय्यात्, शत्रुक्रान्तो महाभटः । जयी जात इति स्वप्ने, पश्यत्सोमयशा नृपः ॥ ६ ॥ रविमण्डलतः भस्ता, करौघो घटितः पुनः । श्रीश्रेयांसकुमारेण, स्वप्नं श्रेष्ठीति लब्धवान् ॥ ७ ॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy