________________
किंच निरालम्बनः स्थविराणामेव विविधो नतु जिनकल्पिकानाम् , तेषामुस्कृष्टनिरालम्बनस्यैवोक्तत्वात् । तदुक्तम्
"चाउम्मासोक्कोसो, सत्तरि राइंदिओ जहन्ना अ।
थेराण जिणाणं पुण, नियमा उक्कोसओ चेव ॥ २॥ इत्थ य अणभिग्गहिअं, वीसइराईसवीसई मासो।
तेण परमभिग्गहिअं, गिहिनायं कत्तिओ जाव ॥३॥" इत्थं व्याख्यातस्वरुपः पर्युषणाकल्पः प्रथमान्तिमजिनतीर्थयोनियतः, इतरेषां त्वनियतो, दोषाभावे | पूर्वकोटिमपीच्छन्ति एकत्रावस्थिति, इतरथा न मासमपीति । एवं विदेहेऽपीति । यतः
" दोसासइ मज्झिमगा, अच्छति अज्जाव पुवकोडीवि।
इहरा उ न मासंपि हु, एवं खु विदेहजिणकप्पी ॥१॥" कारणसद्भावे च प्रथमचरमाहत्तीर्थसाधूनामपि पर्युषणाकल्पेऽप्राप्तेऽपि गमनं संभवति। तानि च कारणान्येवं“काइय भूमीसंथारए अ, संसत्त दुल्लहे भिक्खे । एएहिं कारणेहिं, अप्पत्ते होइ निग्गमणं ॥ १