SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ दुण्हवि दुविहा वि डिओ, एसो आजम्ममेव विन्नेओ। इअ वयभेया दुविहो, एगविहो चेव तत्तेण ॥ ३ ॥” इति षष्ठः कल्पः ॥ तथा ज्येष्ठो-रत्नाधिकः स एव कल्पः-ज्येष्ठकल्पः-वृद्धत्वव्यवहारः प्रथमान्तिमतीर्थकृत्तीर्थयोरुपस्थापनातः आरभ्य पर्यायः, शेषाणां तीर्थेषु तु निरतिचाचारित्रत्वादीक्षात एव पर्यायः । उक्तं च " उवट्ठावणाइ जिहो, विन्नओ पुरिमपच्छिमजिणाणं। पवजाए तु तहा, मज्झिमगाणं निरइआरो॥१॥” इति सप्तमः कल्पः ॥ प्रतिक्रमणकल्पः षड्विधावश्यककरणरूपस्तत्र अतीचारो भवतु मा वा परं प्रथमान्तिमतीर्थकृत्तीर्थयोरुभयसन्ध्यमवश्यमावश्यकं विधेयमिति । शेषाणां तीर्थकृतां तीर्थेषु सति कारणे प्रतिक्रमणं विधेयं, नान्यथेति । उक्तंच "सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स। मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं ॥१॥” इत्यष्टमः कल्पः। प्रथमान्तिमतीर्थे मासकल्पस्यावश्यकर्तव्यत्वेन नित्यत्वं, अन्यथा प्रतिबन्धादिदोषसम्भवः । यतः “पडिबन्धो लहुअत्तणं, न जणुवयारो न देसविन्नाणं । नाणाराहणमेए, दोसा अविहारपक्खंमि ॥१॥"
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy