________________
योग्य अम्ब! कनीं नमु यदा, लप्स्ये वरिष्ये तदा, इत्युक्त्वाऽमोदयदम्बिकां गुरुतरं तत्ते गुरुत्वं गुरो ॥ १ ॥ एकदा च-चक्रं येन सुखं कुलालवदहोऽङ्गुल्या भृशं भ्रामितं, शार्ङ्गं चापि धनुर्मृणालदलवद् येन स्वयं नामितम् । विष्णोरप्यसमश्रमभ्रमक कौमोदकीयष्टिवद्येनोत्पाट्य निजे महाभुजतरौ शाखाश्रियं प्रापिता ॥ २ ॥ ''विष्णोः शङ्खवरेऽरविन्ददलवद्येन स्वयं पूरिते, स्वम्भोन्मूलमनेकपा - हयवरा उद्बन्धनास्त्रसिरे ।
विश्व द्राग वधिरं धराऽपि विधुरा, वप्रश्चकम्पेऽधिकं, पेतुस्ते मृतका इवाऽभवदलशङ्का सम्बधौ हरौ ॥ ३ ॥ संचेलुः शैलनाथा, विचलितनयना भीतभीताः सुरेन्द्राः । सन्त्रेसुर्दिकरीन्द्रा भ्रमणपरिगतैर्मूच्छितं यादवेन्द्रैः । ब्रह्माण्डं खण्डखण्डैः स्फुटितमुदधिभिः प्लावितं भूमिपीठं । यस्येत्थं शङ्खचापक्रमणविलसिते सोऽस्तु नेमिः शिवाय ॥४॥ ॥ कृष्णेन स्वबलावलोकनकृते बाहुं तिरो निर्मितम् । प्रोद्दण्डं निजलीलयाऽप्यनमयद्यः नालनामं तदा । त्वद्वाहुं नमयन्नयं पुनरभूत्पादोज्झितोर्वीतलः । शाखालम्बि कपीशवत्स जयतात् त्वं विश्वविश्वाद्भूतः ॥५॥ तदनु च कृष्णवचसा वसन्ते विविधाः क्रीडाः । गोपिकागण मध्यगः चकार सविकारश्च नाऽभवद् भुवनाद्भूतः ॥ ६॥ गोपिकानां वचो युक्त्या, यदूना माग्रहादपि । प्राणिग्रहमहं मेने, दाक्षिण्यान्निस्पृहोऽपि हि ॥ ७ ॥
ततश्च समुद्रविजयाद्यनेकनरेन्द्रोपशोभमानः श्रीशिवादेवीप्रमुखप्रमदाजनेन गीयमानः नयना - नवनिर्मित सूत्रधारः श्रीनेमिकुमारो रथस्थो धृतातपत्रः पाणिग्रहणाय व्रजन्नग्रतो वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गलभरं धवलमन्दिरं सोऽङ्गुल्यादर्शयत् उग्रसेनस्य ते श्वसुरस्याज्यं प्रासादः, यद्वा
५६