________________
दीपिका
मात् प्रापच योवनं।
दिति । पार्श्वः धात्रीभिरिन्द्रादिष्टाभिाल्यमानो जगत्यभिनवहस्तप्रमाणागःक्रमात् प्राप च योवनं।
ताहगरूपं प्रभुं दृष्ट्वा चिन्तयामासुरङ्गनाः । यासां पतिस्य भावी धन्या सा एव भुतले ॥२॥ कुशस्थलपुरस्वामी, प्रसेनजिन्महीपतिः, स्वकन्यास्फीतलावण्य-रूपां लात्वा समाययौ ॥३॥
अश्वसेनोऽप्युवाचैवं, कुमारः पार्श्व एष नः । सदा विरक्तः संसारान, जाने किं करिष्यति ॥ ४॥ • परं तत्रोपरोधेन पार्श्वनाथं बलादपि । विवाहं कारयिष्याम्यनिच्छन्तमपि वाल्यतः॥५॥ इत्युक्त्वा सह तनैवं, पार्श्वपार्श्व ययौ नृपः । इमां प्रसेनजित्पुत्रीमुद्वाहेति जगाद च ॥६॥ श्री पार्थोऽप्यब्रवीत्तात ! कलत्रादिपरिग्रहः । अपि प्रक्षीणप्रायस्य जीवातुर्भवशाखिनः ॥७॥ पुनःपितृवचः पार्थोऽप्युल्लचयितुमक्षमः । भोगकर्मक्षपयितुमुद्वाह प्रभावतीम् ॥ ८॥
अधिप्रासादमन्येयुः स्वामी वातायनस्थितः । वागारसी पुरीं द्रष्टुम्, प्रावर्तत कुतुहलात् ॥९॥ - बहिश्च निर्यतः पुष्पोपहारपटलीभृतः । ससम्भ्रमात् नागराश्चनागरीश्चक्षत प्रभुः॥१०॥ प्रभु पृष्टश्च कोऽपि तत्स्वरुपमेवं प्राह. सन्निवेशे क्वचिदभूद्रोरद्विजकुले सुतः। कृपया जीवितो लोकैः, कमठ इत्युदितथ तैः॥११॥
अन्येचुरीश्वरान् वीक्ष्य, रत्नालङ्कारधारिणः । देवा इवामी तन्मन्ये, प्राग् जन्म तपसः फलम् ॥ १२॥ एवं विचिन्त्य संवेगादग्रहीतापसव्रतं । पञ्चाग्न्यादितपस्तेपे, कन्दमुलादिभोजनः ॥१३॥ सोऽयं नाथस्तपस्व्यद्य, बहिः पुर्या इहागतः । पञ्चाग्न्यादितपास्तं चाचितुं पौरा ब्रजन्त्यमी ॥१४॥