________________
तद् द्रष्टुं कौतुकं स्वामी, जगाम सपरिच्छदः । ज्ञानत्रयधरोऽपश्यद् दह्यमानं महोरगम् ॥ १५॥ तं दृष्ट्वा करुणाम्भोधिभगवानभ्यधादिदं । अहो अज्ञानमज्ञानं, न दया यत्तपस्यपि ॥१६॥
कृपानदी महातीरे सर्वे धर्मास्तृणाङ्कराः । तस्यां शोषमुपेतायां कियनन्दति ते चिरं ॥ १७ ॥ अहो तपस्विन्नतिमूढतैव ते, धर्मस्य तत्त्रं नहि वेत्सि सर्वथा। इत्थं महारम्भरतो निरन्तरं, कष्टं वृथा किं कुरुषे दयां विना तदाकर्ण्य कमठोऽवोचद्राजपुत्रा हि जानते । गजाश्वाचैव धम्मै तु, वयमेव तपोधनाः ॥१९॥ काष्ठे कुण्डादथाकृष्टे, कुठारेण द्विधा कृते । सहसा निर्जगामोच्चैः, पन्नगस्तापविह्वलः ॥२०॥ तस्येषद्दह्यमानस्य महाहेभगवानपि । अदापयत् नमस्कारान्, प्रत्याख्यानं च तत्क्षणम् ॥२१॥ नमस्कारप्रभावेण, स्वामिनो दर्शनेन च । विपद्य धरणो नाम, नागराजो बभुव सः ॥२२॥ अहो ज्ञानं जनैरेवं, स्तुतः स्वामी गृहं ययौ । विशेषात् स व्यधात् कष्टं, ज्ञानं मिथ्यादृशां कुतः ॥२३॥
मृत्वा मेघकुमारेषु कमठो भवनवासिषु । असुरो मेघमालीति नामतः समजायत ॥२४॥ पासे णं अरहा पुरिसादाणीए दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए, तीसं वासाई अगाखासमझे वसित्ता पुगरवि लोयंतिएहिं जियकप्पिएहिं देवेहिं ताहिं इटाहिं जाव एवं वयासी ॥१५४॥ जय जय नंदा, जय जय भद्दा, जाव जय जय सह पज्जंति ॥१५५॥ पुवि पि णं पासस्स णं अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे
-