________________
तीर्थोद्गारादावपि "सालाहणेण रमा, संघाएसण कारिओ भयवं' । पज्झोसवणाचउत्थी, चाउम्मासं चउद्दसीए ॥१॥
चउमासपडिकमणं, पक्खिअदिवसम्मि चउविहो संघो । नवसयतेणउएहिं, आयरणं तं पमाणं ति ॥२॥
इति श्राद्धविधौ प्रतिक्रमणाधिकारे, 'त्रिनवत्यधिकैनवशतवर्षेः श्रीवर्द्धमाननिर्वाणात गतः कालकाचार्यः पर्युषणां पञ्चम्याः चतुर्थ्यामानयिष्यति, इति दीपालिकाकल्पे श्रीतपागच्छीयसरिकृते ।
तथा तित्थुग्गालिअ प्रकीर्णके तु-'सालाहणेण रण्णा, ७१ 'चउम्मास पडिकमणं. २ ' इत्यतनगाथादृष्टान्तेन वक्ष्यत इति अस्याश्चाचारणायाः संवादकाक्षराणि निशीथचूादिष्वपि सन्ति श्रीश्राद्धविधिनिश्चये १२ पत्रे
तथा “ तेणउअनवसएहिं समइक्कतेहिं बद्धमाणाओ पज्झोवसवणचउत्थी, कालगसूरीहिंतो ठविआ ॥१॥" इयं गाथा कालसप्ततिकासूत्रे दुषमदण्डिकावचूर्णौ च । श्री प्रतिष्ठानपुरकल्पेऽप्येवमेवार्थः समर्थितोऽस्ति तद्यथाअन्वित त्रिनवतेर्नवशत्या अत्ययेऽत्र शरदां जिनमोक्षात् । कालकोऽव्यधित वार्षिकमार्यः पूर्वभाद्रपदशुक्लचतुर्थ्याम् ॥१॥
इत्यादि बहुग्रन्थसंमत्या त्रिनवत्यधिकनवशतवः ९९३ पर्युषणापर्व पञ्चमीतश्चतुर्थ्या प्रववृते इति ज्ञायते, तेन सन्देहविषौषधिस्थ व्याख्यानस्य दूषणं न युक्तमिति ध्येयं । किं चैतत्सूत्रमब्यक्तमिति तु प्रागेवोक्तं तच्च सम्यगेतहाम्नायविद्वेद्यमिति बोध्यम्।
। इति श्रीवीरचरित्राधिकारः सम्पूर्णितः।
[इति षष्ठं व्याख्यानं समाप्तम् ]