________________
११४
नालक्षणस्य दशमस्य शतस्यायं त्रिनतितमः संवत्सरः कालो गच्छति । अयं भावः नवशताऽशीतिवर्षे पुस्तकवाचना प्रवृत्ता, नवशतत्रिनवति ९९३ वर्षे पर्षद्वाचनेति सम्भावयन्ति ।
केचित्तु सन्देहविषौषध्यनुसारेण त्रिनवतियुतनवशतवषैः पञ्चमीतश्चतुर्थ्यां पर्युषणा प्रववृते इति व्याख्यान्ति, एतच्च व्याख्यानं कल्पकिरणावलीकारेण दृषितमस्ति परं तदयुक्तं त्रिनवत्यधिकनवशतवः पञ्चम्याश्चतुर्थ्यां पयुषणापर्वानयनस्य श्रीविचारामृतसङ्ग्रहादिवग्रन्थसम्मतत्वात, तथाहि 'त्रिनवतियुतनवशतवर्षपक्षे वियता कालेन पञ्चम्या चतुर्थ्यापर्युषणाकल्प प्रववृते,' इति श्रीविचारामृतसङ्गहे।
तथा श्रीवीरे शिवङ्गते ४७० वर्षे विक्रमार्को राजा तत्कालीनोऽयं तत्मतिपक्षत्वाद्यस्तु कालकाचार्यपार्थात् पर्युषणामेकेनाला अर्वागानायत् सोऽन्यः सातवाहन इति सम्भाव्यते । अन्यथा
नवसय तेणउअसएहिं, समइकंतेहिं बद्धमाणाओ। पज्जोवसवणचउत्थी, कालगसूरीहितो ठविआ॥१॥ इति चिरंतनगाथा विरोधप्रसंगात् । न च शातवाहन क्रमिकः शातवाहन इति विरुद्धं, भोजपदे बहूनां भोजत्वेन, जनकपदे बहनां जनकत्वेन रूढत्वात, इति मलहारिराजसेखरसूरिविरचित २४ प्रबन्धेषु शातवाहन प्रबन्धप्रान्ते तथा-तदेवं निश्चिनुमः पाक्षिक चतुर्दश्यामेव चतुर्मासिकसांवत्सरिके तु पूर्व पूर्णिमापञ्चम्योः क्रियमाणेऽपि कालकाचार्याचरणतः चतुर्दशीचतुर्योः क्रियेते, प्रमाणिकं चैव सर्वसंमतत्वात् उक्तं च श्रीकल्पभाष्यादौ
आसाढेण समाइन्न, जं कत्थइ केणइ असावज्ज । न निवारिअमन्नेहिं, बहुमणुमयमेयमायरियं ॥१॥
PEA