SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ यत्तु ‘एवं व्रतस्थितो सप्त-क्षेत्र्यां धनं वपन् । दयया चाऽतिदीनेषु, महाश्रावक उच्यते ॥११९ ॥ इति योगशास्त्रीयश्लोकव्याख्याने 'जिनवचनं दुःषमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवकितावार्जुनस्कदिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम्' इति दृश्यते तन्माथुरीवाचनामाश्रित्येति सम्भाव्यते । केचित्तु नवशताऽशीतिवर्षे वीरसेनाङ्गजार्थमानन्दे । सङ्घसमक्षं समहं, प्रारब्धं वाचितुं विज्ञैः ॥ १॥ इति अन्तर्वाच्यवचनात् 'श्रीवीरनिर्वाणात् नवशताऽशीतिवर्षाऽतिक्रमे पुत्रमरणार्तस्य ध्रुवसेननृपस्य समाधिमाधातुमानन्दपुरे सभासमक्षं पर्युषणाकल्पो वाचयितुमारब्ध,' इति वदन्ति परं तदपि विचारणीयमस्ति, यतः क्वचित्रिनवत्यधिकनवशतवर्षाऽतिक्रमे ध्रुवसेननृपाऽऽग्रहात आनंदपुरे सभासमक्षं पर्युषणकल्पवाचना जातेत्यपि दृश्यते यदुक्तं-- वीरात्रिनन्दाङ्कशरद्यचीकरस्त्वचैत्यपूते ध्रुव-सेनभूपतिः यस्मिन् महैः संसदि कल्पवाचनामाद्यां तदानन्दपुरं न कः स्तुते॥१॥ इति श्रीमुनिसुन्दरमरिकृतस्तोत्ररत्नकोशे, एतद् व्यञ्जनमपि पुस्तकवाचनातः कियता कालेन पर्षद्वाचना जातेति । क्वचित्पर्युषणाकल्पावचूर्णाविति बोध्यं, तत्वं पुनः सर्वविद्वेद्यमिति । वायणंतरेत्यादि अत्र केचिद्वाचनान्तरं क्वचिदादर्श पाठान्तरं अन्यथा इति दीप्सइ त्ति पदानुपपत्तिरिति कृत्वा यदेवाऽशीतिपक्षे तदेव पाठान्तरेण त्रिनवतिपक्षेपि जातमित्यव्यक्तमेव व्याख्यान्ति, अव्यक्तं चैतत्सूत्रं न वापि विवृतमिति तु स्वयमेव बोध्यम् । M केचित् पुनः पुस्तकवाचनातः पर्षद्वाचना जातेति पर्युषणाकल्पावचूर्णिवचनात् पूर्वोक्तश्रीमुनिसुन्दरपरिवच- नाच्च पुस्तकवाचनाऽपेक्षयाऽन्यावाचना सा वाचनान्तरं, प्राकृत्वात् षष्ठयर्थे सप्तमीति कृत्वा वाचनान्तरस्य पर्षद्वाच
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy