________________
११.
षण्मासोनानि त्रिंशद्वर्षाणि, एगत्ति एकः कर्मसन्तापविरहात, अबीए त्ति-अद्वितीयः एकाक्येव. [GI दीपिका पच्चूसत्ति प्रत्यूषकालक्षणो यः समयोऽवसरस्तन्त्र, संपलिअंकेत्ति सङ्गतः पर्यकः पद्मासनं तत्र निषण्णः | उपविष्टः । पञ्चपश्चाशत्सु कल्याणविपाकाऽध्ययनेषु एकं मरदेवाऽध्ययनं विभावयन् प्ररुपयन भगवान् निवृत्तः ॥१४७॥ . - समणस्स भगवओ महावीरस्म जाव सब्बदुक्खप्पहीणस्स नव वाससयाई विइकताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छद, वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इइ दीसइ ॥१४८॥ . व्याख्या-नववाससयाई ति । श्रीवीरनिवृत्तेः नवसु वर्षशतेषु व्यतीतेषु दशमस्याऽशोतितप्रसंवत्सरे अस्य पुस्तकवाचनाया काल इत्यक्षरार्थः । भावार्थस्तु यद्यपि तथाविधाऽर्थाऽवबोधकव्यक्तव्याक्यानुपलम्भात् विवृत्य वक्तुमशक्यस्तथापि ग्रन्थान्तराऽनुगतयुक्त्या किश्चिदुच्यते तथाहि
" एतत्सूत्रं श्रीदेवर्द्धिगणिक्षमाश्रमणैः प्रक्षिप्तमिति क्वचित्पर्युषणाकल्पाऽवचूाँ तदभिप्रायेण श्रीवीरनिर्वाणात नवशताऽशीतिवर्षाऽतिक्रमे सिद्धान्तं पुस्तके न्यसद्भिः श्रीदेवर्द्धिगणिक्षमाश्रमणैः श्रीपर्युषणाकल्पस्याऽपि वाचना पुस्तके न्यस्ता, तदानीं पुस्तकलिखनकालज्ञापनायैतत्सूत्रं लिखितमिति, विज्ञापयते तथा सम्प्रदायगाथाऽपि| "वलहिपुरमिअ नयरे, देवडिपमुहसयलसंधेहिं । पुत्थे आगमलिहिओ, नवसयसीयाओ वीराओ" ॥१॥ इति