________________
तथा तुण-डगल-भस्म-मल्लक-पीठ-फलक-शय्या-संस्तारक-लेपादिवस्तनां ग्रहणे सोपधिकभव्यदीक्षादाने आज्ञया कल्प्यत्वात् शय्यातरोन भवति यतः
"तृण-डगल-छार-मल्लग-सिज्जा-संथार-पीढ-लेवाइ ।
सिज्जायरपिंडो सो, न होइ सेहो अ सोवहिओ ॥ १॥” इति तृतीयः कल्पः ॥३॥ सेनापति १ पुरोहित २ श्रेष्ठय ३ मात्य ४ सार्थवाह ५ युक्तो यः राज्यं भुनक्ति चक्रवर्त्यादिस्तस्य | अशनादि चतुष्कं ४ वस्त्रं५ पात्रं ६ कम्बलं७ रजोहरणं ८ इत्यष्टविधः पिण्डः प्रथमान्तिमतीर्थकृत्तीर्थे | | व्याधातादिदोषदूषितत्वात् अकल्प्यः । अजितादितीर्थकृतां तीर्थे साधूनां ऋजुप्रज्ञत्वाद्रहणानुज्ञा । यदुक्तं
“मुदिआइगुणो राया, अट्ठविहो तस्स होइ पिंडुत्ति ।
- पुरिमेअराण एसो, वाघाईएहि पडिकुट्ठो ॥१॥" व्याघातादयः पुनरेवं स्युः
"ईसरपभिईहि तहिं, वाघाओ खद्धलोहुदाराणं।
दसणसंगो गरहा, इअरेसि न अप्पमायाओ ॥२॥" व्याख्याः-'ईश्वर' युवराजप्रमुखैः सपरिवारैरागच्छद्भिर्गच्छद्भिश्च, तत्र राजकुले व्याघातः-स्खलना