________________
“सिज्जाअरो ति भण्णइ, आलयसामी उ तस्स जो पिंडो ।
सो सव्वेसिं न कप्पइ, पसंगगुरुदोसभावाओ ॥१॥" _ 'पसंग'त्ति, प्रसङ्गस्तद्ग्रहणप्रसक्तौ ये गुरवो-महान्तो दोषास्तेषां भावो भवनं-उत्पत्तिस्तस्मादित्यर्थः ।। दोषबहुत्वं तु सन्निहितसाधुगुणानुरागेण पारणके प्रथमालिकाद्यर्थ वारंवारं प्रवेशने अशुद्धाहारसम्भवात्, मिष्टान्नपानादिलोभेन तत्कुलापरित्यागात्, कारणादुरगतस्यापि पुनरागमनात्, विशिष्टाहारोपधिभ्यां शरीरोपध्यलाघवात्, येन वसतिया तेनाहाराद्यपि देयमिति भयोत्पादात्, तहानभयाच्च वसतेःलभ्यात् वसतेरभावाच्च, भक्तपानशिष्यादिव्यवच्छेदाच्चेति तीर्थकृत्प्रतिषिद्धत्वादिति भावः। तत्परित्यागे तु निःस्पृहत्वपूज्यत्वगुणेन श्रद्धावृद्धिप्रवचनगौरवादिगुणाः स्युः। . क्वचित्कारणादौ शय्यातरगृहाहारग्रहणम्, कथं कार्यमिति चेदुच्यते-यदि रात्रेश्चतुरो यामान जाग्रति स्वाध्यायद्यनुष्ठानपराःप्राभातिकावश्यकाद्यन्यत्र कुर्वन्ति तदा मूलस्वामी शय्यातरो न भवति तदन्यो al भवति, यदि च तत्र सुप्तमावश्यकाद्यन्यत्र कृतं तदा उभावपि शय्यातरौ भवतः। यदुक्तम्
“जइ जग्गन्ति सुविहिआ, करंत आवस्सयं च अन्नत्थ । सिजायरो न होई, सुत्ते व कए व से होई ॥१॥"