SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ “संघादुद्देसेणं, ओहाईहिं समणाइअहिगिच्च । कमिह सव्वेसिं चिअ, न कप्पइ पुरिमचरिमाणं ति ॥ १ ॥ ” व्याख्याः – सङ्घाद्युद्देशेन–सङ्घोषाश्रयालम्बनेन, 'ओहाईहिं' ति सामान्यविशेषाभ्यां तत्र सङ्घार्थमिति विकल्पः सामान्यम्, , विशेषस्तु प्रथमजिनसङ्घार्थं चरमजिनसङ्घार्थं चेति विकल्पः एवमुपाश्रयमाश्रित्यपि । 'समणाइअहि. गिच्च 'त्ति श्रमणान् श्रमणीश्चाधिकृत्येत्यर्थः । द्वाविंशतिजिनतीर्थे तु यं साधुसङ्घादिकमुद्दिश्याधाकर्मकृतं तत्तस्यैवाकल्प्यम्, अन्यसाधूनां तु कल्प्यम् । यतः - “ मज्झिमगाणं तु इमं, जं कडमुद्दिस्स तस्स चेवति । नो कप्पइ सेसाण उ, तं कप्पइ एस मेर ति ॥ "" एषा मर्यादा । प्रथमान्तिमतीर्थे तु एकं कञ्चनसाधुमुद्दिश्य कृतं आधाकर्म तत्सर्वेषां साधूनामकल्प्यम् ॥ इति द्वितीय कल्पः । शय्या - वसतिस्तया तरति शय्यातरो - वसतिखामी, तस्य पिण्डः अशन१ पान २ खादिम ३ स्वादिम४ वस्त्र५ पात्र६ कम्बल७ रजोहरण८ सूची९ पिष्पल १० नखरदनिका १९ कर्णशोधनरूपो १२ द्वादशविधः सर्वतीर्थकृतां तीर्थेषु अकल्प्यः । यदुक्तंः
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy