________________
प्रणम्य निखिलान् सूरीन्, स्वगुरुं सततोदयम् । कुवें स्वबोधविधये, सुगमां कल्पदीपिकाम् ॥२॥ पुरिमचरिमाण कप्पो, मंगलं वद्धमाणतित्थंमि ।
इह परिकहिआ जिणगण-हराइ थेरावली चरितं ॥१॥ ___ इह तावच्चतुर्मासं स्थिताः साधवो मङ्गलनिमित्तं पर्युषणापर्वणि पञ्चदिनानि कल्पसूत्रं वाचयन्ति । | तत्र कल्प इति कोऽर्थः ? साध्वाचारः, स च दशविधः, तथाहि
“आचेलुक्कु१ देसिअर, सिजायर३ रायपिंड४ किइकम्मे५ ।
वय६ जिट्ठ७ पडिक्कमणे८, मासं९ पज्जोसवण१० कप्पे ॥१॥" । अत्र कल्पशब्दः सर्वत्र योज्यस्तत्र आचेलक्यं श्रीवर्धमानयुगादिजिनावाश्रित्य देवेन्द्रोपनीतदेवदूष्यापगमे यावज्जीवम्, अन्येषां तु तत्सद्भावाद्यावज्जीवं सचेलकत्वम् । प्रथमान्तिमजिनेन्द्रसाधूनुद्दिश्य च श्वेतमानाधुपेतानां जीर्णप्रायाणां वा वस्त्राणां धारित्वादचेलकत्वमिति व्यपदिश्यते। अजितादितीर्थकृतां साधूनां ऋजुप्रज्ञत्वात् महामूल्यमानाधिकवस्त्रधारित्वेन सचेलकत्वम् ॥प्रथम कल्पः॥
तथा साधूनुदिश्य क्रियते तदौद्देशिका, प्रथमान्तिमजिनतीर्थे – कञ्चनमुनिमुद्दिश्य कृतं सर्वेषां | का तत्पिण्डादि अकल्प्यम्, अजितादिसाध्वपेक्षया तु यमुद्दिश्य कृतं तदतिरिक्ताशेषसाधूनां कल्प्यम् । यदाह