________________
इत्यादि विचिन्त्य भगवत्पादमागतास्तथैव संशयोच्छेदे प्रव्रजितास्तव्यतिकरस्त्वन्यतो ज्ञेयोन | ग्रन्थविस्तृतभिया नाऽत्र लिखित इति, एवं च ४४०० द्विजाः प्रव्रजिताः, तत्र गौतमस्वामिप्रमुखैरेकादशभिर्निषद्यात्रयेण द्वादशाङ्गी गृहीता, प्राणिपत्य पृच्छा च निषद्या उच्यते। ताश्चैवम्
प्रणिपत्य गौतमस्वामी पृच्छति भगवस्तत्वं कथय, भगवान आचष्टे 'उपपणे इ वा' पुनस्तथैव पृष्टे 'विगमे इ वा' पुनरप्येवं कृते वदति 'धुवे इ वा एतास्तिस्रो निषद्याः। आसामेव सकाशाद्यत्सत्तदत्पादव्ययध्रौव्ययुक्तं अन्यथा वस्तुनः सत्ताऽयोगादित्येवं तस्यान्येषां च गणभृतां प्रतीतिर्भवति, ततश्च ते पूर्वभवभावितमतयो बीजबुद्धित्वात् द्वादशाङ्गीमुपरचयन्ति, ततस्तेषां प्रभुस्तदनुज्ञां करोति, शक्रस्तु सौगन्धिकरत्नचूर्णभृतं रत्नस्थालं गृहीत्वा सन्निहितो भवति स्वामी च सिंहासनादुत्थाय चूर्णमुष्टिं गृहीत्वा यथाक्रमं गौतमादिशिरसि मुश्चन् द्रव्यगुणपर्यायैस्तीर्थमनुजानोतीति, ततो देवा अपि चूर्णपुष्प गन्धवर्ष तदुपरि कुर्वन्ति, गणं च श्रीवर्डमानस्वामी सुधर्मस्वामिनं धूरि व्यवस्थाप्य अनुजानातीति।
॥ श्री गणधरवादः संपूर्णः ॥ तेणं कालेणं तेणं समएणे समणे भगवं महावीरे अहियगामं नीसाए पढमं अंतरावासं वासावासं उवागए, चंपं च पिठिचंपं च नीसाए तओ अंतरावासे वासावासं उवागए, वेसालिं नगरिं वाणिअगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए,रायगिहं नगरिं नालंदं च