________________
वृषभः स्वर्गजं शृङ्गः, प्रहर्तु का क्षति द्रुतम्। द्विपः पर्वतपाताय, दन्ताभ्यां यतते रयात् ॥३१॥ शशकः केसरिस्कन्ध-केसरान् क्रष्टुमीहतोमदृष्टौ यदसौसर्व-वित्वंख्यापयतेजने ३२त्रिभिर्विशेषकम् । समीराऽभिमुखस्थेन,दावाऽग्निज्वलितोऽमुना। कपिकच्छूलता देह-सुखायाऽऽलिङ्गिता ननु॥३३॥d शेषशीर्षमणि लातुं, हस्तः स्वीयःप्रसारितः। सर्वज्ञाऽऽटोपतोऽनेन, यदहं परिकोपितः॥३४॥ युग्मम् तावद् गर्जति खद्योत-स्तावद् गर्जति चन्द्रमाः । उदिते च सहस्रांशी, न खद्योतो न चन्द्रमा।३५।। | मम भग्यभराद्यद्वा, वाद्ययं समुपस्थितः। दुर्भिक्षे क्षुधितस्यान्न-लाभश्चिन्ताऽतिगो यथा॥३६॥ यमस्य मालवो दूरे, किं स्यात् को वा वचस्विनः,। अपोषितो रसो नूनं, किमजेयं च चक्रिणः३७ । सुधियां किममेयं स्यास्किं न साध्यं तु योगिनां । क्षुधितस्य न किं खाद्यं, किं न वाच्यं खलस्य च ३८ | कल्पद्रुणामदेयं किं, निर्विण्णानां किमत्यजम्। गच्छामि तर्हि तस्याऽन्ते,पश्याम्येतत्पराक्रमम् ॥२९॥ लक्षणे मम दक्षत्वं, साहित्ये संहिता मतिः। तर्के कर्कशता नित्यं, क्व शास्त्रे नास्ति मेश्रमः॥४०॥ काउं हयप्पयावं, पुरओ देवाणदाणवाणं च । नासहं नीसेसं, खणेण सव्वन्नुवायं से ॥१॥ इत्युदीर्य त्वरापूणों, ययौ वादस्य लिप्सया । पञ्चच्छात्रशतैः पठ्य-मानोऽसौ बिरुदैरिति ॥४२॥