SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका १०३ अग्निभूतिरुवाचैवं, भ्रातः! कस्तेऽत्र विक्रमः। कीटिकायां कथं पक्षी-राट् करोति पराक्रमम्॥२१॥ पनस्योत्पाटने हस्ती, कुठारः काशकर्त्तने। मृगस्य मारणे सिंहः, सद्भिः किं क्वापि शस्यते॥२२॥ गौतमो भ्रातरं प्राह, भो अद्याप्युपतिष्ठते । वायसौ विहित मुद्ग-पाके ककटुको यथा ॥२३॥ पीलयतस्तिलः कश्चिद्, दलतश्च कणो यथा । सूडयतस्तृणं किञ्चि-दगस्तेः पिबतः सरः ॥२४॥ मईयतस्तुषः कोऽपि, तद्वदेष ममाऽभवत् । तथापि सासहि हं, मुधा सर्वज्ञभाषिणम् ॥२५॥ । एकस्मिन्नजिते ह्यस्मिन्, सर्वमप्यजितं भवेत्। एकदा हि सती लुप्त-शीला स्यादसता सदा२६ यतः-छिद्रे स्वल्पेऽपि पोतः किं,पाथोधौ नैव मजति?।न सालो गृह्यतेधीरैः-सालांशे पातितेऽपि किम्२७। हंहो! वादिगणा भोट-कर्णाटादिसमुद्भवाः। कस्माददृश्यतां प्राप्ता, यूयं मम पुरः सदा ॥२८॥ लाटा दूरगताःप्रवादिनिवहामोनं श्रितामालवा,मूकाभामगधा गतागतमदा जल्पन्ति नोगौर्जराः काश्मीराः प्रणताः पलायनपरा जातास्तिलङ्गोदभवा, विश्वे चापि स नास्ति यो हि कुरुते वादं मया साम्प्रतम् ॥ २९ ॥ | कृष्णसर्पस्य मण्डुक-श्चपेटां दातुमुद्यतः। मूषो रदैश्च मार्जार-दंष्ट्रापाताय सोद्यतः॥ ३०॥ ABG
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy