________________
वंच्चिज व मुक्खजणो, देवा कहणेण विम्हयं नीया। वंदंति संथुणति अ, जेण सव्वन्नुबुद्धीए॥९॥ | अहो! सुराः कथं भ्रान्ताः? तीर्थाम्भ इव वायसा । कमलाकरवद्रेका, मक्षिकाश्चन्दनं यथा॥१०॥ करभा इव सदृक्षान्,क्षीरानं शूकरा इव ।अर्कस्याऽऽलोकवघका-स्त्यक्त्वा यागंप्रयान्ति यत्।युग्मम् अहवा जारिसओचिअ,सोनाणी तारिसा सुरातेविअणुसरिसो संजोगो,गामनडाणं च मुक्खाणं१२४ स्वगतं-व्योम्नि सूर्यद्वयं किं स्यात्? गुहायां केसरिद्वयाखड्डौ द्वौवाप्रतीकारे,किं सर्वज्ञावहं सच।१३।। किमिन्द्रजालिकः कोऽपि, कलाशाली विदेशजः। सर्वज्ञाऽऽटोपमात्रेण, जनस्वर्गिप्रतारकः ॥१४॥
सोऽवादीभौ जनाः कीदृग्,सर्वज्ञोऽसौ निगद्यते? जनैरूचे स्वरूपं को,वक्तु नामाऽस्य शक्नुयात्१५, 7 सदध्यौ तीसौ नूनं, मायायाः कुलमन्दिरम्। कथं लोकः समस्तोऽपि, विभ्रमे पातितोऽमुना१६ ॥ न क्षमे क्षणमात्र तु, तं सर्वज्ञं कदाऽप्यहम् । तमस्तोममपाकर्तु, सूर्यो नैव प्रतीक्षते ॥१७॥ वैश्वानरः करस्पर्श, मृगेन्द्रःश्वापदस्वनम्। क्षत्रियाश्च रिपुक्षेपं, न सहन्ते कदाचन ॥ १८॥ मया हि येन वादीन्द्राः, तूष्णीं संस्थापिताः समे। गेहे शूरतरः कोऽसौ, सर्वज्ञो मत्पुरो भवेत्॥१९॥ | शैला येनाऽग्निना दग्धाः, पुरः के तस्य पादपाः। उत्पाटिता गजा येन,का वायोस्तस्य पुम्भिका॥२०॥