________________
कल्प
दीपिका
वस्त्रादेः तृणमयभाजनस्य वाऽमत्रस्य पात्रविशेषस्य निक्षेपणायां विमोचनेन यः समितः सुप्रत्युपेक्षितादिक्रमेण सम्यक् प्रवृत्तःस तथा। उच्चार:-पुरीषं,प्रश्रवणं-मूत्रं, खेलं-निष्ठीवन, सिवानो-नासिकामला, I जल्ल:-शरीरमलः तेषां परिष्ठापना-परित्यागस्तत्र समितः-शुद्धस्थण्डिलाऽऽश्रयणात् । तच्चान्त्यसमितिद्वयं भगवतो भाण्डसिङ्घानाद्यसम्भवेऽपि नामाऽखण्डनार्थमित्थमुकतं । मगसमिएत्यादि-मनः प्रभृतीनां-कुशलानां प्रवर्तकः इत्यर्थः, चित्तादीनामशुभानां निषेधको, यतः समितिः-सत्प्रवृत्तिः, गुप्तिस्तु निरोधः इति, अतएव गुप्तः सर्वथा गुप्तत्वाद, गुप्तेन्द्रियः-गुप्तानि इन्द्रियाणि शब्दादिषु रागद्वेषाऽभावात् येन स तथा । गुप्त ब्रह्मचारी-गुप्तं च सत्यादिनवगुप्तिमद् ब्रह्ममैथुनविरतिरूपं चरत्याssसेवते इत्येवं शीलो यः स तथा । अक्रोध इत्यादि स्पष्टं । शान्तो-अन्तवृत्या, प्रशान्तो-बहिया, उपशान्त-उभयतः, अतएव परिनिर्वृत्तः-सकलसंतापवर्जितो, अनाश्रवो-अविद्यमानपापकर्मयन्धो हिंसादि सप्तदशावविरहात, अममः-आभिष्वनिकममेति शब्दवर्जितः, छिन्नग्रन्थो-मुक्तहिरण्यादिग्रन्थः, निर्लेपो-द्रव्यभावमलरहितः कर्मबन्धहेतुवर्जितो वा, अथ निर्लेपतामेवोपमानैराह-कांस्यपात्रीव मुक्तं तोयमिव तोयं बन्धहेतुत्वात् स्नेहो येन स तथा । शङ्ख इव निरञ्जन:-रञ्जनं रंगणं वा रागाधुपरञ्जनं तस्मान्निर्गतः, जीव-इवाऽप्रतिहतगतिः-सर्वत्रौचित्येन अस्खलितविहारात, संयमे वाऽप्रतिहतवृत्तिः, गगनमिव निरालम्बनो देशग्रामकुलादिरहितत्वात्, वायुरिवाऽप्रतिबद्धः-क्षेत्रादौ प्रतिबन्धाऽभावेन औचित्येन सतविहारित्वात् गामे एगराइअं इत्यादि वचनात् । शारदसलिलमिव शुद्ध