SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ कल्प स्वाम्याह – " यः सोऽहम्' इति मन्यते स जीवः " । स्वातिराह -- 'कः सोऽपि' इति भगवानाह – “शिरःप्रभृतिभ्यो भिन्नः सूक्ष्मश्च'' स्वातिः प्रोचे - 'किं न दृश्यते' स्वाम्याह-- 'नायमिन्द्रियग्राह्यः' इत्यादिप्रश्नैर्भगवन्तं तत्त्वविदं ज्ञात्वा भक्त्या प्रणनाम, भगवताऽपि सः प्रतिबोधितः । वर्षात्यये स्वामी जृम्भकग्राममाययौ, तत्र शक्रो नाव्यविधिं दर्शथित्वा स्तोकैरेव वासरैः केवलं तवोत्पत्स्यते इत्युक्त्वा च स्वं स्थानं गतः क्रमेण स्वामी षण्मानिनामानं ग्रामं जगाम, बहिश्चक घोत्सर्गेण तस्थौ । तदा च त्रिपृष्टभवे कर्णयोस्तत्र पुप्रक्षेपतो यः शय्यापालको व्यापादितः सोऽपि भवान् भ्रान्त्वा गोपालदारकोऽजनिष्ट, स च स्वाम्यन्तिके वृषभान् मुक्त्वा गोदोहादिकृते स्वं गृहं ययौ, ते च चरन्तोऽटवीं विविशुः, स चागतस्तानपश्यन् प्रभुं प्रपच्छ, पुनः पुनः पृष्टेऽपि भगवति अनुक्तवति अत्यन्तरुष्टो भगवतश्चोदी तद्वेद्यंकर्म पूर्वार्जितं ततस्तेन भगवत्कर्णरन्ध्रयोः काशशलाके क्षिप्ते तथा च ताडिते उभे अपि मिथो मिलि मा कृषत् कोऽप्येनौ कीलकाविति च तत्कीलकबहिर्भागं च च्छित्वा गोपाधमो जगाम । भगSaraft श्रुतिशल्यो कम्पितशुभध्यानो मध्यमाऽपापायां सिद्धार्थगृहे पाराणार्थ जगाम, तेन च भक्त्या प्रतिलाभितः । तत्र पूर्वाऽऽयातखरकनामा वैद्यः प्रभुं प्रेक्ष्य सूक्ष्मधीरित्यवदत्, अहो सर्वलक्षणैः सम्पूर्णा दीपिका ९६
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy