SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ प्रभोप॑तिं दृश्यते परं म्लानत्वेन शल्यवती सम्भाव्यते, सम्भ्रमात् सिद्धार्थोऽप्युवाच सम्यग् विलोकय देहे क्व शल्योऽवतिष्ठते, तत वैद्यो विलोकयन् प्रभुकर्णयोः शल्ये दृष्ट्वा सिद्धार्थाय दर्शयित्वा च निर्विलम्बमेते कर्षयेत्युवाच, तैलेनाऽभ्यज्य च संवाहकैरमईयतां मईनाच मृदुषु देहसन्धिषु ओजस्विभिः पुरुषैः । सण्डासकाभ्यां समकालं कीलकावाकर्षयतां, तदा सरुधिरं कीलकद्वयं कर्णरन्ध्रयोः निर्ययौ तदा च NI तथाऽभूमुद्वेदना कील-कर्षणेन यथा प्रभुः। ररास भैरवाऽऽरावं, वजाहत इवाऽचलः ॥१॥ ___ नाऽस्फुटत्स्वामिमाहत्म्यात्तेन नादेन मेदिनी । विपद्यपि हि नार्हन्तः, परोपद्रवकारिणः ॥ २॥ | व्रगसंरोहिग्योष्यध्या क गौ सजीकृत्य क्षमयित्वा च तो स्वगृहमीयतुः वेदनामपि तौ भर्तुः, कृतवन्तौ शुभाशयौ । बभुवतुः सुरलोक-श्रीभाजनमुभावपि ॥१॥ __दुष्टाशयस्तु गोपालो, विधाय स्वामिवेदनां । सप्तमाऽवनिदुःखाना, भाजनं समजायत ॥ २॥ ८ यत्र स्थाने कीलको कर्षितौ तत्र स्थाने जनैर्देवकुलं विदधे एवं सर्वेष्वपि जघन्यमध्यमोत्कृष्टभेदभि नेषु उपसर्गेषु उत्कृष्टोपसर्गा एवं-तत्र जघन्येषूत्कृष्टोपसर्गः कटपूतनाकृतो, मध्यमेषूस्कृष्टोपसर्गः सङ्ग-1 माधमसुरमुक्तकालचक्रसम्भवः, उत्कृष्टेष्त्कृष्टो भगवत्कर्णशयोद्धरणसमयसञ्जातपीडासम्भवोपसर्गः, एवं च उपसर्गाः पूर्व गोपेन प्रारब्धा गोपेनैव समाप्ति नीताश्च 'गोपारब्धा उपसर्गा गोपेनैव निष्ठिताः'। इति वचनात् । एवं ये ये देवमनुष्यतिर्यकता उपसर्गा भगवतः महावीरस्य व्यावर्णिता अन्येऽपि ४४
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy