SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ मिनि पुना रुदन्ती च स्वाम्यपि द्रव्यादिभिः पूर्ण स्वीयाभिग्रहं ज्ञात्वा करं प्रसारयत् । चन्दनाऽपि | धन्यमन्या मूर्पकोणेन स्वामिनः करे कुल्माषान् ददौ । तदाऽभिग्रहपूर्त्या सुराः पञ्चदिन्यानि चक्रिरे, तस्याश्च निगडा नुपूरागि जज्ञिरे, पूर्ववत्केशपाशश्च जातः, सर्वाङ्गावयवेषु अभरणान्यभुवन् । सुराश्च तत्र ननृतुः, सिंहनादं विदधुः, शतानीकायाः सर्वेऽपि तत्राऽजग्मुः, शक्रोऽपि पूर्णाऽभिग्रहं भगवन्तं वन्दि-| तुमाययौ । दधिवाहननृपस्य संपुलाकनामा कश्चक्यपि शतानीकसेवाकृस्ति सोऽप्यागतश्चन्दनां दृष्ट्वा | तत्पादलग्नो मुक्तकण्ठं रुदन तामप्यरोदयत्, ततोऽसौ राज्ञा केयमित्युक्तो दधिवाहनराज्ञो धारिण्याश्च । पुत्रीयमिति प्रत्युत्तरितवान् । तनो मृगावती 'इयं मम भगिनीसुता' इति वदन्ती तामालिलिङ्ग । शतानीकोऽपि वसुधारां गृह्णन् शक्रेण निषिडश्चन्दनावचसा च तां धनावहो जग्राह । ततः शक्रः शतानीकं प्रति 'इयं बाला चरमदेहा भोगपराङ्मुखी भगवत्केवलोत्पत्तौ प्रथमा शिष्या भविष्यताति'। यत्नतो रक्षणीयेत्युक्त्वा दिवं ययौ, भगवानप्यन्यत्र विजहार, मृगावत्यापि चन्दनया सहान्तःपुरं गता, साऽपि भगवतः केवलोसतिं ध्यायन्ती तस्थौ, मूला च श्रेष्ठिना निष्काशिताऽपध्यानतो मृत्वा नरकं गता। तथा| भगवान् पालकग्रामे गच्छन् यात्रयागच्छता वायलनाना वणिजा दृष्टः,सचाऽयमपशुकनमिति चिन्तयन्नसिमुत्पाट्य धावितो हन्तुं तावता स्वयं सिद्धार्थस्तच्छिरोऽच्छिदत् । ततो विभुश्चम्पायां स्वातिदत्ताऽग्निहोत्रशालायां चतुर्मासी तस्थौ, तत्र च रात्रौ पूर्णभद्रमाणिभद्रौ महर्डिको यक्षो प्रभु सेवमानौ दृष्ट्वा सविस्मयः किमयं देवार्यो वेत्तीति परिक्षितुम् प्रश्नमकरोत्-'देहे शिरःप्रभृत्यङ्गपूणे को जोव उच्यते।
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy