________________
कल्प
दीपिका
पुरीं प्रातः,धारिगों तु वृद्धां पत्नी करिष्यामि, बालांच विक्रेष्ये, इति दासेरपालकमुखोद्गतवचसा स्फुटितहृदया पश्चत्वं प्राप्ता । सोऽपि सखेदः साम्ना वचसा वसुमती जल्पयन् पुरी नीत्वा राजवर्त्मनि विक्रेतुं स्थापितवान ,तांच दीनां सौभाग्यभाग्यवतीं पुत्रीमिव दृष्ट्वा तस्याश्च मूल्यं दत्वा धनावहो गृहे निनाय। तस्थाश्च विनयशीलवागरञ्जितो धनवाहः 'चन्दना' इति नाम निदधे । ततः पापमूला मुलाऽपि मम पतिरिमां पत्नी करिष्यतीति चिन्तया मम्लौ । अन्यदा ग्रीष्प्रतौं विनीनायाश्चन्दनायाः श्रेष्ठिपादक्षालने कुर्वत्याः केशपाशो भूमौ लुलोठ, ततो वत्सायाः केशपाशो माऽभूत मलिनः इति सादरस्नमवघ्नात्स्वयं धनावहः। मूलाऽपि तद् दृष्ट्वा श्रेष्ठिनि कार्यान्तरे गते चन्दनायाः पादयोः निगडान क्षिप्स्वा, मुण्डितमस्तकां तां गृहैकदेशे मुक्त्वा कपाटं दत्त्वा यः श्रेष्ठिने कथयिष्यति स मम कोपाग्ने पतङ्गो भविष्यतीति प्रतिवेशिमकानुक्त्वा च मूलगृहं ययौ । तां विलोकयतश्च श्रेष्ठिनः तृतीयदिवसे वृद्धयैकया चेट्या यथावत्कथितं ततो द्वारमुद्घाट्य दवदग्धां पद्मिनीमिव विच्छायवदनां दृष्ट्वा श्रेटी सखेदः साश्रुग् कुल्माषान् सूर्पकोणस्थांस्तस्यैव समर्प्य निगडच्छिदे कार्मारमानयाम्यित्युक्त्वा च बहिर्ययौ, चन्दनाऽपि भवस्थितिं चिन्तयन्ती यावदस्थात्, तावता भिक्षायै पर्यटन स्वामी तद्गृहमागान् तदा च
"अहोपात्रमहोपात्रमहो मे भाग्सश्चयः। मुनिर्महात्मा कोऽप्येष भिक्षायै यदुपस्थितः"!॥१॥ इति विचिन्त्य कुन्माष सूर्पभृत् एकं पादं देहल्या मध्ये बहिश्चापरं कृत्वा स्वामिनं प्रत्युवाच-'अनुचितमेव भोज्यमेतत्ते तथाऽपि कामिकशिरोमणे गृहाग, अनुगृहाण मां, रुदनाऽभावात निवृत्ते स्वा
Ka