SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ अथान्यदा नवीनोत्पन्नश्चमरेन्द्रो भगवन्तं शरणीकृत्य स्वमुनि स्थितं शक्रं जेतुं स्वर्जगाम, तन्मुक्तवज्रज्वालाकरालितश्च ना भगवत्पादमूले निलीयाऽस्थात् । शक्रोऽपि पश्चादागत्य भगवन्तं चतुरङ्गलमप्राप्त वजं जग्राह । ततः सम्प्राप्ताऽभयश्चमरोऽपि प्रभु नस्वा स्वं स्थानं गतः। स्वामी च क्रमेण विहरन् कौशाम्बी ययो, तत्र शतानीको भूगो, चेटकराजसुता मृगावनीराज्ञी, मन्त्री सुगुप्तः, प्रिया नन्दा, धनावहः श्रेष्ठी, मूला च तत्पन्नी। तत्र स्वामी पोषबहुलप्रतिपद्दिने सुदुस्सहं दुर्ग्रह अभिग्रहं जग्राह, यथा अयोनिगडबद्धाघ्रिर्मण्डिताऽनशिता सती, रुदती मन्युना राजकन्याऽपि प्रेष्यतां गता ॥१॥ देहल्यंतः स्थितैकाध्रि-बहिः क्षिप्ताऽपराधिका, गृहात्प्रतिनिवृत्तेषु सर्वभिक्षाचरेषु तु ॥२॥ यदि मे सुर्पकोणेन, कुल्माषान् सम्प्रदास्यति । चिरेणापि तदेवाह, पारयिष्यामि नाऽन्यथा ॥३॥ गोचरसहितमिदमभिग्रहं गृहीत्वा जगत्प्रभुःप्रतिदिनमुच्चावचेषु गेहेबु भ्रमतिस्म, प्रतिदिनं च मन्त्रि-y गृहे जगाम । तत्र च चतुर्मासं यावन्मन्त्रिपन्या नन्दया बहूप.येष्वपि कृतेषु अपूर्णेऽभिग्रहे सखेदां नन्दा दासी प्राह-स्वमिनि! प्रत्यहं देवार्योऽनात्तभिक्षो निर्यातीति तद्वचः श्रुत्वा सुगुप्ताऽमात्या नन्दा चाऽतिवदुःखितौ मृगावतीदास्या दृष्टौ, तया मृगावत्यै, तया च शतानीकभूपायोक्ते राजादिभिः पूर्णऽपि नगरे बहवः प्रकाराः कृतास्तथापि भगवतोऽभिग्रहो न पूर्णः, एवं पञ्चदिनोनाः षट्मासा गताः। इतश्च पुरा सैन्यैः शतानीको दधिवाहनभूपतेश्चम्पां रुरोध, दधिवाहने च नष्टे सर्वाऽपि पुरी लुण्टिता, केनाऽप्यौष्ट्रिकेन दधिवाहनप्रिया धारिणी वसुमत्या पुत्र्या सह गृहीता । ततः कृतकृत्यः शतानीकः स्वां यह देवायो / पूर्णपिता मृगाव
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy