________________
कल्प
दीपिका
ग्रामे भिक्षायै विश, भुझ्व कूरादि इत्यूकते सति भगवानप्युवाच सानुतापो हे सङ्गमकामर ! नास्माकं चिन्ता त्वया कार्या, नाऽहं त्वदधीनोऽस्मि, स्वेच्छया यास्यामि नवेति । तदचसाऽतीवन्नोऽपि शक्रभीत्या भगवन्तं प्रणम्य क्षमयित्वा च सानुतापो विच्छायवदनः सौधर्म गतः, तत्र च इन्द्राद्याः सर्वेऽपि देवा निरुत्साहाः निरानन्दाः मुक्तनेपथ्याः पण्मासं यावदवतस्थिरे।।
शक्रः सङ्गमकं दृष्ट्वा, सद्यो भृत्वा पराङ्मुखः । इत्यूचे भोः सूराः सर्वेऽप्याकर्णयत मदचः ॥१॥ अयं हि कर्मचाण्डालः, पापः सङ्गमकाऽमरः। दृश्यमानोऽपि पापाय, तद् द्रष्टुं नैव युज्यते ॥२॥ बह्वनेनापराद्धं हि, यत् स्वाभी नः कदर्थितः । अस्मत्तोऽपि न कि भीतो, भवाभीतो न यद्ययम् ॥३॥ अर्हन्तो नाऽन्यसहाय्या-त्तप्यन्ते तप इत्यहम् । तथोपसर्गकालेऽपि, नामुं पापमशिक्षयम् ॥४॥ अतः परमिह तिष्ठ-न्नस्माकमपि पाप्मने । निर्वासनीयस्तदसौ, कल्पादस्मात्सुराधमः ॥५॥ इत्युदित्वा वज्रपाणिवजेणेव शिलोच्चयम् । जघान वामपादेन, सुराधमममषणः ॥६॥ पर्यस्यमानो विविधायुधर्माधवतैर्भटः । आक्रोश्यमानस्त्रिदिव-स्त्रीभिर्मोटितपाणिभिः ॥७॥
सामानिकहस्यमानो, यानकारव्यविमानतः । सशेषेकार्णवायुष्को, मेरुचूलां सुरो ययौ ॥८॥ निवारितपरिवारः तत्पत्न्योऽपि शक्राऽऽज्ञया तमनुजग्मुः। ततो भगवान् गोकुले वच्छपालकस्थविरया परमोन्नेन प्रतिलाभितः, जातानि पञ्च दिव्यानि । तदनु शकाद्या देवेन्द्राः प्रभु वन्दित्वा समधानं पृष्ट्वा स्वं स्वं स्थानं जग्मुः।