SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ दीपिका स च प्रारभवस्पृष्टसम्यक्त्वेन पूजितः। ततः शालिशीर्षग्रामे गत्वा उद्याने कायोत्सर्गमकरोत् प्रभुः, तदा च माघनासोऽस्ति, तत्राऽवसरे त्रिपृष्टभवाऽस्मानितविजयवतीभार्याजीवो भवान्तरे भ्रान्त्वाऽन्यत्र भवे मानुष्यं प्राप्य, बालतपसा मृत्वा, कटपूतना नाम व्यन्तरी जाता। सा च जटावल्कलधरं तापसीरूपं विधाय हिमशीतपयसा वपुरा कृत्य प्रभोरुपरिष्टादू भूत्वा वारिविन्दून मुमोच । तदा च तथा जटाग्र-वल्कलाग्राद्विन्दवो निपेतुर्यथाऽन्यश्वेत्स्यात् तदा स्फुटेत्, अर्हतस्तु तं शीतस्पर्श सहमानस्य | विशषतो धर्मध्यानं अदीप्यत, तदा सर्वलोकाऽवलोकनं अवधिज्ञानं समुत्पन्नम् । ततः पूर्व तु तादृशं नाऽऽसीत् यदूचुः सहजं त्ववधिज्ञानं, यावद् देवमवे भवेत् । एकादशाङ्गीसूत्रार्थभृत्त्वं च चरमार्हतः ॥१॥ तदनुपशान्ता निशान्ते, सा सानुतापा च कटपूतना । पूजयित्वा प्रभुं भक्त्या, निजं स्थानमुपाययौ ॥२॥ तथा दृढभूमि बहुमिच्छा, पेढीलुज्जाणमागओ भयवं । पोलासचेइअंमि ठिओ एगराइमहापडिमं ॥३॥ कर्मक्षयाथै बहुम्लेच्छसङ्कलायां दृढभूमो विहृतवान, भगवान्, तत्र च पेढालग्रामासन्ने पोलासचैत्ये शुद्धभूमौ शिलातले रुक्षकद्रव्यदत्तराष्टिः कृताऽष्टमः प्रतिनया एकरात्रिक्या स्थितः, तस्मिन्नवसरे 'सको अ देवराया, सभागओ भणइ हरिसओ वयणं । तिन्निवि लोग असमत्था, जिणवीरमणं चलेउं जे ॥१॥ तच्च वचनमसहिष्णुरमर्षणस्तत्सामानिकस्संगमकनामा अद्यैव भ्रष्टप्रतिज्ञ करोमि इति विवंस्तत्रागत्य भगवतो विंशतिमुपसर्गानेकरात्रौ चक्रे । तच्चैवं
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy