________________
पोऽसौ तं प्रति तेजोलेश्यां मुमोच । तज्ज्वालयाऽतीवभीतो भगवच्छरणं ययौ, भगवानपि शिष्या17 भासं त्रातुं शीतलेश्याममुश्चत्, विभुमाहात्म्यं दृष्ट्वा वैशिकातन्यः श्रीवीरं समुपेत्यादोऽवदत् ।
न ज्ञातो भवतामेष, भगवनंतिखज्जनः तत्सहध्वमिहेदृक्षं प्रतीपचरणं मम ॥१॥ एवमुक्त्वा गते तस्मिन्, प्रभुं गोशलकोऽवदत् । तेजोलेश्यालब्धिरियं, जायते भगवन् ! कथम् ॥२॥ स्वाम्याऽख्यत्सर्वदा षष्ठं, विदध्याद्यश्च पारयेत् । शमी सनखकुल्माष-मुष्टया च चुलुकेन वा ॥३॥
तस्य षण्मासपर्यन्ते, तेजोलेश्या गरीयसी । उत्पद्यतास्खलनीया-प्रतिपक्षभयङ्करा ॥४॥ पुनः कुर्मग्रामात् प्रभुः सिद्धार्थपुरं प्रस्थितोऽन्तरा मङ्खभुः प्रभुं प्राह-"स्वाम्युक्तस्तिलस्तम्भो जातो नवा?" स्वाम्याह-निष्पन्नोऽयं तदश्रद्धानस्तिलशम्बां व्यदारयत्, तत्र सप्ततिलान् पश्यन्नैवं गोशालकोऽवदत् । “जायन्तेऽङ्गपरावृत्या पुनस्तत्रैव जन्तवः" ॥१॥ इत्युक्तपक्षमङ्गीकृत्य स्वामिनं मुक्त्वा श्रावस्ती गत्वा भगवदक्तविधिना तेजोलेश्यां प्रत्ययार्थ कूपे गत्वा कस्याचिहास्याः कर्करैर्घटमभिन्नत् सा, तं चुक्रोश। तेन तेजोलेश्या मुक्ता तया भस्मीभूता एवं जातप्रत्ययः श्रीपार्श्वप्रभोः शासनीयेभ्यः शाण-11 कलिन्दकर्णिकाराऽच्छिद्राग्निवेशार्जुनेभ्यः सदृक्शीलेभ्योऽष्टाङ्गनिमित्तं प्राप्य परमाहङ्कारवान् कृतोऽनेकशिष्यो जिनोऽहमिति वदन वसुधां विजहार ॥ इति मट्टलिपुत्रोत्पत्तिः कियन्मात्रा ॥ तथा गामागबिहेलजक्खं, तावसी उवसमावसाण कई ग्रंथान (१९००) छटेण सालीसीसे विसुद्धमाणस्य लोगो ही ॥१॥ स्वामी विहरन् ग्रामाकसन्निवेशे प्राप्तो बिभेलकाऽभिधानयक्षसद्मनि कार्यात्सर्गधरः स्थितः, तेन
કર