________________
कल्प- कृत्वाऽन्यतो ययुः । स्वामिहीनेन शुनैव मया विपल्लब्धा, शक्रादयोऽपि विभुविपदं धनन्ति । तत्पा- 1.दीपिका
दशरणस्य ममापि विपदो यान्तीति निश्चित्यातीत्य भद्रिकायां षष्ठे मासे प्रभोर्मिलितो । अन्यदा कुण्ड-11 गसन्निवेशे गत्वा कृष्णायतने कायोत्सर्गे विभुः स्थितो, गोशालो वासुदेवमुखे अधिष्ठानं निवेश्य स्थितो, दृष्टश्च जनैः चपेटाभिहत्वा मुक्तश्च । ततोऽपि मद्देनसन्निवेशे गत्वा विभुबलदेवगृहे कायोभत्सर्ग चक्रे, सोऽपि बलमुखे लिङ्गं निवेश्य स्थितो, दृष्टश्च जनैस्तथैव कुट्टितो मुक्तश्चैवं पदे पदे पराभवं
स्वचापलेन प्राप्तवान् । अन्यदा सिद्धार्थपुरात्कुर्मग्रामाभिधं तेनान्वितश्चचाल । तदान्तरा गोशालो मार्ग तिलस्तम्भं दृष्ट्वोवाच स्वामिनं प्रति किमयं निष्पत्स्यते नवा ? मौनं मुक्त्वा स्वयं स्वाम्याह-एते सप्ताऽपि पुष्पजीवा एकशम्बायां सप्ततिला भाविनस्तद्वचोऽन्यथा कर्तु मृतपिण्डयुक् स्तम्भस्तेनोदखनि मुक्तश्चमा भूदसत्यं वाचां विभोरिति व्यन्तरेर्वारिवृष्टिः विचक्रे,तत्पदेशोगोखरेणोक्रान्तो भूमौ प्रविष्टः सुप्रतिष्ठो जातश्च । क्रमादेकस्यां शम्बायां पुष्पजीवास्तिलत्वेनोत्पन्ना। भगवानपि कूर्मग्रामाभिधे तेनान्वितो जगाम । इतश्च वीरात् पूर्व वैशिकायनो नामा तापसः कूर्मग्रामे आगच्छन् कीर ।
बहिश्चोर्ध्वदोर्दण्डो, सूर्यमण्डलदत्तदृक् । लम्बमानजटाभारो, न्यग्रोधदुरिवाऽस्थिरः॥१॥ निसर्गतो विनीतात्मा, दयादक्षिण्यवान् शमी । आतापनां स मध्याहने, धर्मध्यानस्थितोऽकरोत ॥२॥ आदित्यकरतापेन, यूकानि पतिता भूवि । ग्राहं ग्राहं स चिक्षेप, भूयो मूनि कृपानिधिः ॥३॥ गोशालस्तं दृष्ट्वा स्वामिपावा॑दुपेत्य त्वं यूकाशय्यातरोऽसीति भूयो भूयोरप्युवाच, ततो जातको १२