________________
भगिन्यौ श्रुत्वा किमयं छद्मस्थस्तीर्थकरो भवेदिति विचिन्त्योंपलक्ष्यारक्षकानूचतुः किं न जानीथ ? सिद्धार्थसुतं प्रभु, तेभीताः स्वामिनं मुक्त्वा क्षमयामासुरन्यदा विहरन् विभुः श्रावस्तीबाह्यप्रदेशे प्रतिमाधरः स्थितो, भोजनावसरे प्रभु प्राह गोशालकः '
किशो मे आहारो भविता? सिडार्थस्वाहअद्य नृमासं भक्षयिष्यसि, गोशालस्त्वाह-'यत्र मांसगन्धो न तत्र भोक्ष्ये” सोऽपि श्रावस्ती गतः । इतश्च पितृदत्तस्य भार्या सा च मृतवत्सा कथं मेऽपत्यं जीवति इति निमित्तज्ञमपृच्छत् । सोप्याहजातमात्रं स्वपुत्रं विष्ट्वा क्षीरेण पायसीकृत्य सप्पिर्मधुयुत्सुभिक्षवेभोजनं दत्से तदा तथा तेऽपत्यानि जीविष्यन्ति, भुक्त्वा गते गृहदारं परावर्य, ज्ञात्वाऽसौ मा ज्वालयतु तव गृहं तया तथा कृतं । सोऽपि भगवन्तमुपेत्योवाच मया पायसभोजनं भुक्तम्, सिद्धार्थोऽपि तत्स्वरुपमकथयत्सोऽपि करामुलीं क्षिप्त्वा ववाम । तदा नखाद्यवयवान् दृष्ट्वा कुद्धस्तद्वेश्मान्वेष्टुं ययौ, परं द्वारपरावृत्त्या गृहं नाज्ञासीत् ततोऽप्युवाच-यदि मदुगुरोस्तपस्तेजस्तदा सकलोऽपि प्रदेशो दह्यतामान्यथा जिनमहात्म्यं मा भूदिति सन्निहितव्यन्तरा सर्व प्रदेशमदहन् । भगवानपि पदे पदे परिषहोपसर्गान् सेहे।
अथान्यदा गोशालो भगवन्तं प्रोचे पदे पदे पराभवं प्राप्नोमि परं मां हन्यमानमपि तटस्थ इवेक्षसे तेन तालसेवेव या त्वत्सेवा वृता सा स्मर्तव्या, नाऽहं त्वया सह समेष्यामि । सिद्धार्थोऽप्युवाच यत्नुभ्यं रोचते तत्कुरु, अस्माकं त्वियं शैली नाऽन्यथाभाविनी, भगवन्तं मुक्त्वा राजगृहाऽध्वना चचाल, प्रविष्टो महाराण्यं, तत्र पञ्चशतचौरर्मातुल ! एहोति कृत्वा तैरारुह्य सबलीवईवद्वाहितः,कर्थितश्च श्वासशेष तं