________________
भगवदन्तिकेऽस्थात्, प्रथममासक्षपणवारणके विजयश्रेष्ठिना भोजन विधिना प्रतिलाभितो, जातानि पञ्च दिव्यानि । तदतिशयं श्रुत्वा गोशालः स्वं वेषं त्यक्त्वा स्वामिनं प्रत्याह- "हे प्रभावनिधे ! त्वच्छिष्यो 'भविष्यामि त्वं च मे गुरुः” इत्युक्तवति तस्मिन् प्रभुस्तूष्णीक एवास्थात् । तदनु भिक्षया प्राणवृत्तिं कुर्वन् प्रभोः शिष्योऽहं जातोऽस्मीति जानन् पार्श्वे स्थितो । द्वितीयनासक्षपणपारणके खाद्य कैरानन्देन प्रतिलाभितस्तृतीयमा सक्षपणपारणके सुनन्देन परमान्नेन प्रतिलाभितोऽन्यदा किमहं भिक्षायां लप्स्ये इत्युक्तवति गोशाले भगवद्वपुःसङ्क्रान्तसिद्धार्थः प्राह - आम्लकोत्र व कूरं दक्षिणायां कूटं सूपकं च प्राप्स्यसि, विशिष्टान्नार्थी भ्रमन् किमपि न प्राप । सायं केनचित् कर्मकृताकार्य सिद्धार्थोक्तमेव दत्त, तदनु “यद्भाव्यं तद्भवत्येवेति, नियतिवादमग्रहीत् । स्वाम्यपि ततो निर्गत्य कोल्लाके चतुर्मासकपारणके बहुलब्राह्मणेन दत्तक्षैरेय्या पारणं कृतवान् । मङ्घभूस्तत्र भगवन्तमपश्यन् सुचिरं पर्यटन सायं कायोत्सर्गस्थं भगवन्तं ददर्श, प्रत्युवाच च - " त्यक्तवस्त्रादिसङ्गोऽधुना त्वद्दीक्षो चितस्तेन मां शिष्यं यावज्जीवं प्रतिपद्यस्व, त्वमेवाजन्म मे गुरुः" "भगवानपि भाव्यनर्थं तद्भवं विदन्नपि तद्वचः प्रतिपेदे । अन्यदा गोपै राध्यमानं पायसं प्रेक्ष्य क्षुधितोऽस्मीत्यतो भोजनं कुर्म इति मङ्घभूर्भगवन्तं प्रोचे । सिद्धार्थः उवाच 'नेदं निष्पत्तिं यास्यति' aaisal नियतिं विशेषतोऽग्रहीत् । त्रिकालविद् मद्गुरुर्वक्तिदेतद्भाजनं स्फुटिष्यति ततस्तैः कृतयत्ना तण्डुलैः तदस्फुटत्, तदलाभेऽसौ नियतिं विशेषतोऽग्रहीत् । ब्राह्मणग्रामे नन्दोपनन्दौ यौ द्वौ पाटकौस्तस्तत्र नन्देन षष्ठपारणके विभुः प्रतिलाभितः, उपनन्दपाटके तदास्याः पर्युषितं कूरं दीयमानं
४१