________________
कल्प
८६
ताडितास्तैश्चखादुस्ताः श्रीवीरालङ्कृतोटजम् । स्थितः प्रतिमया स्वामी, नाश्नन्तीस्ता न्यषेधयत् ॥ १५॥ उटज स्वामिना रावा, चक्रे कुलपतेः पुरः । प्रभुं सोऽप्यशिषनीडं, रक्षन्ति न वयोऽपि किम् ? ॥ १६ ॥ अप्रीतिर्मयि सत्येषा, तन्न स्थातुमिहोचितम् । विचिन्त्येति प्रभुः पञ्चा - ऽमिग्रहीदिमान् ॥१७॥ नामीतिर्मद्गृहे वासः १ स्थेयं प्रतिमया सदा२ । न गेहिविनयः कार्यो ३ मौनं पाणौ च भोजनम् ॥ १८ ॥ शुचिराकाचतुर्द्दश्या, अर्द्धमासादनन्तरम् । प्रावृष्यथास्थिकग्रामं जगाम त्रिजगद्गुरुः ॥ १९॥ ११६ ॥
समणे भगवं महावीरे संवच्छरं साहिअं चीवरधारी होत्था । तेण परं अचले ।
व्याख्या - समणेत्यादि । साधिकमाससंवत्सरादुर्ध्वं दक्षिणवाचालपुरासन्नसुवर्णवालुका नदी पुलिनवर्तितरुकण्टके विलग्य देवदृष्यार्द्ध पतिते भगवान् सिंहावलोकितेन तदद्राक्षीत्, ममत्वेनेत्येके, स्थडिले चेत्यन्ये, सहसाकारेणेत्यपरे, शिव्याणां वस्त्रपात्रं सुलभं भावि न वेति केचित्, तत्कण्टकलग्नं दृष्ट्वा वृद्धवादेन तु भावि स्वसन्ततेः कषायबाहुल्यात् कण्टकप्रायतामाकलय्य निर्ममतया पुनर्न जग्राह । तदर्द्ध तु पूर्वमेव विप्रस्यार्पितम् । यदाहु:
• पिउणो मित्तं सोमो, आजम्मं चैव निद्वणो भट्टो । धणलाभत्थी पत्तो, आसं काउं जिणसगासे ॥१॥ सो पुण दाणावसरे, जिणस्स देसंतरं गओ आसी । लाभत्थमेव रडिओ, भज्जाए आगओ सन्तो ||२|| एवं जिणेण दिनं सव्वस्स ढणक्कए तुमं देसी । तो निलक्खण ! अज वि, गन्तूण तमेव मग्गेसु || ३ ||
दीपिका
८६