SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ कयत् परं न ददर्श । प्रातश्च प्रभोः पार्श्वे स्वयमागतास्तान् दृष्ट्वा कुपित: सेल्हकमुत्पाव्य स्वामिनो वधाय धावितः । तत्स्वरूपं चावधिना इन्द्रः समवगत्य तं शिक्षितवान् । ततो भवतामुपसर्गबाहुल्यं तेन यावस्केवलोत्पतिस्तावद्युष्मत्सेवां करोमीत्युक्तवति देवेन्द्रे भगवानुवाच - "देविन्दा न एअं भूयं ३ जन्नं अरिहंता देविंदस्स असुरिंदस्स वा निस्साए केवलनाणं उप्पाडिंसु वा ३ सिद्धि वा वच्चति, अरिहंता सए णं उट्ठाणबलबीरिअपुरिसकारपरकमेणं केवलनाणं उप्पाडिंसु वा ३ सिद्धिं वा वच्चति । ततो मारणान्तीमोपसर्गस्य वारणार्थ बिडौजसा सिद्धार्थः स्वाभिमातृष्वस्त्रेयभ्यन्तरः स्थापितः, ततः स्वामी प्रातः कोल्लाकसंनिवेशे बहुलब्राह्मणगृहे षष्ठस्य पारणार्थं गतस्तेन परमान्नेन प्रतिलाभितः । तत्र पञ्च दिव्यानि जातानि तेषु वसुधारामानमेवंअद्ध तेरसकोडी, उक्कोसा तत्थ होइ वसुहारा । अद्धतेरस लक्खा जहन्निआ हाई वसुहारा ॥८॥ विहरन्नथ मोराके, सन्निवेशे ययौ प्रभुः । प्राज्यदूइज्जंतकाख्यतापसाऽऽश्रमशालिनि ( १७००॥ ॥९॥ पितुर्मित्रं कुलपति - स्तत्र प्रभुमुपस्थितः । पूर्वाभ्यासात् स्वामिनाऽपि तस्मिन् बाहुः प्रसारितः ॥१०॥ तस्य प्रार्थनया स्वामी, तत्रैकां रात्रिमाविशत् । स्थेयं वर्षास्विहेत्यूचे, प्रस्थितं स पुनः प्रभुम् ॥११॥ नीरागोऽप्युपरोधेन, प्रतिश्रुत्यान्यतो ययौ । अष्टौ मासान् विहृत्याथ, तत्र वर्षार्थमागमत् ॥१२॥ कुलपत्यर्पिते वर्षास्तस्थौ, स्वामी तृणौकसि । गावो बहिस्तृणानाप्त्या, वर्षारम्भे क्षुधातुराः ॥ १३॥ अधावन् खादितुं वेगात्तापसानां तृणोटजान् । निष्कृपास्तापसास्तास्तेऽताडयन् यष्टिभिर्भृशम् ॥ १४ ॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy