________________
जय जय शब्द प्रयुञ्जानाः । तदनु बहवः उग्रा, भोगा, राजन्याः, क्षत्रियाः, तलवराः, माडम्बिकाः, कौटुम्बिकाः, श्रेष्ठिनः, सार्थवाहा, देवा, देव्यश्च, स्वामिनः पृष्ठतः पार्श्वतो व्यवस्थिताः संप्रस्थितास्तदनु भगवान् शिविकारूढो गच्छति । पृष्टतश्चतुरङ्गचमूवृत्तो हस्तिस्कन्धारुडः च्छत्रचामराभ्यां राजमानः श्रीनन्दिवर्डनराजा अनुगच्छति । तथा चाह सूत्रकृत- सदेवमणुएत्यादि, सदेवमनुजासुरया - स्वर्गमर्त्यपाताल वासिन्या परिषदा - जनसमुदायेन समनुगम्यमानं - अनुव्रज्यमानं अग्रे अग्रतश्च शाङ्खिकाद्यैस्तत्र शाङ्खिकाचन्द्रनगर्भशङ्खहस्ताः, मङ्गलकारिणः शङ्खवादका वा, चाक्रिका - चक्रप्रहरणा, लाङ्गलिका - गलावलम्बितसु वर्णादिमयलाङ्गलाकारधारिणो भट्टविशेषाः, मुखमाङ्गलिका - मुखे मङ्गलं येषां ते तथा वर्द्धमानाः - स्कन्धारोपित पुरुषाः पुष्यमाणा - प्रागधा मान्या वा, घण्टया चरन्तीति घण्टिकाः राउलिआ इति रुढाः तेषां गणैः परिवृतं च भगवन्तं प्रक्रमात् कुलमहत्तरादिस्वजनाः ताभिरिष्टादिविशेषणोपेताभिः वाग्भिरभिनन्दन्तोऽभिष्टवन्तश्च एवमवादिषुः
जय जय नन्दा ! जय जय भद्दा ! भद्रं ते अभग्गेहिं नाणदंसणचरितेहिं, अजिआईं जिणाहि इंदिआई, जिअं च पालेहि समणधम्मं, जिअविग्घो विय वसाहि तं देव ! सिद्धिमज्झे, निहणाहि रागदोपले, तवेगं धिगिअबद्धकच्छे, मद्दाहि अट्ठकम्मसत्तु झाणेणं उत्तमेणं सुकेणं, अप्पमत्तोराहि राहणापडावर ! तेलुक्क रंगमज्झे, पावय वितिमिरमणुत्तरं केवलवरनाणं, गच्छ य मुक्खं
३७