SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ कल्प ८२ गणेहिं ताहिं इट्ठाहिं कंताहिं पिआहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मिअमहुरसस्सिरीयाहिं वग्गूहिं अभिनन्दमाणा य अभिधुव्वमाणा य एवं वयासी ॥ ११३ ॥ व्याख्या - तेणमित्यादि, पाइणगामिणीए त्ति-पूर्वदिग् गामिन्यां छायायां पाश्चात्यपौरिष्यां प्रमाण कोटिप्राप्तायां अभिनिवृत्तायां - जातायां, सुव्रताख्ये दिवसे, विजयाख्ये मुहूर्ते, चन्द्रप्रभायां शिबिकायां आरूढ इति गम्यं, शिविकामानं च प्रागेवोक्तं । किं च भगवति शिविकारूढे प्रव्रज्यायै गन्तुप्रवृत्त तत्प्रथमतया सर्वात्मना रत्नमयान्यष्टौ मङ्गलानि प्रस्थितानि क्रमेण-स्वस्तिकः १, श्रीवत्सः २, नन्द्यावर्तः ३, वर्द्धमानकं ४, भद्रासनं ५, कलशः ६, मत्स्ययुग्मं ७, दर्पण ८ च तदनुक्रमे ग पूर्ण कलश भृङ्गारचामराणि, तदनु गगनतलमनुल्लिखन्ती वातोडूता महती वैजयन्ती, तदनु बैडूर्यमणिदण्ड कोरिष्टमालोपशोभितं चन्द्रमण्डलप्रभं विमलापत्रम्, तदनु मणिकनकविचित्रं सपादपीठं सिंहासनं, तद्नु क्रमेण अष्टशतं आरोहरहितानां तुरङ्गमानां अष्टशतं कुञ्जराणां, अष्टशतं सघण्टानां सपताकानां सनन्दिघोषाणां अनेक प्रहरणभृतानां रथानां, अष्टशतं पुरुषाणां तदनु हयानीकं, गजानीकं, रथानीकं, पदात्यनाकं, तदनन्तरं आकाशतलमनुलिखन् लघुपताकासहस्रपरिमण्डिता योजनसहस्रोच्छ्रयो रत्नमयोऽतिमहान् महेन्द्रध्वजः । तदनु बहवः खड़ग्राहाः, कुन्तग्राहाः, पीडफलकग्राहाः, तदनु हासकारका - नर्म्मकारकाः, कान्दर्पिका दीपिका ८२ ८२
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy