SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ नुत्तरं - सर्वोत्कृष्टं, आभोगिकं - आभोगः - प्रयोजनं, अप्रतिपात्यनिवर्त्तकं आकेवलोत्पत्तेर्ज्ञानदर्शनं अवधिज्ञान- मवधिदर्शनं च आसीत्, ताभ्यां ज्ञानदर्शनाभ्यां आत्मनो निष्क्रमणकालं - दीक्षाकालं आभोगयतिविलोकयतीत्यर्थः । चिच्चा त्यक्त्वा हिरण्यादि व्याख्या प्राग्वत् । तथा विच्छर्ध-विशेषेण त्यक्त्वा निsक्रमणमहिमकरणतो विच्छद्देवद् यद्वा विस्तारयुक्त्वं कृत्वा, तथा तदेव गुप्तं सद्विगोप्य - प्रकाशीकृत्य दानातिशयात्, अथवा 'गुषि-गोपन कुत्सनयो' रिति चिगोप्य कुत्सनीयमेतदस्थिरत्वादित्युक्त्वा, दीयते इति दानं धनं दायारेहिंति - दानार्थमाऋच्छन्ति एयति वा दायारा - याचकास्तेभ्यः परिभाज्य - दत्वा । अथवा दायारेहिंति-दातृभिः स्वनियुक्त पुरुषर्दानं परिभाज्य - दापयित्वा तच्च दानविधानं श्रीआवश्यक निर्युक्त्यादावेवमुक्तं । तद्यथा संवच्छरेण होही, अभिनिक्खमणं तु जिणवरिंदाणं । तो अत्थ संपयाणं, पव्वत्तए पुव्वसरंभि ॥ १ ॥ एगा हिरण्णकोडी, अट्ठेव अणूणगा सयसहस्सा । सरोदयमाईअं, दिज्जइ जा पायरासाओ ॥२॥ वरह वरं वरह वरं, इअ धोसिज्जद्द महंतसद्देणं । पुर-तिअ - चउक्क - चच्चर - रत्था रायप्पहाईसु || ३ | जो जं वरेह तं तस्स, दिज्जर हिमवत्थमाइअं । विअरंति तत्थतिअसा, सक्काएसेण सव्र्व्वपि ॥४॥ तिन्नेव य कोडिसया, अट्ठासीइं च हुंति कोडीओ। असीइं च सयसहस्सा (१६००) एअं संवच्छरे दिन्नं ॥ ५॥ तदा च | शीतत्राणपटीन चाग्निशकटी नास्ति द्वितीया पटी, निर्वाता न कुटी प्रिया न गमुटी भूमौ च घृष्टा कटी। ३६
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy