________________
""
एवं वर्ष गृहे स्थित इति त्रिंशत् । गुरुमहत्तरेहिंति, गुरुणा ज्येष्ठभ्रात्रा नन्दिवर्द्धनेन महत्तरैश्चराजघानैरभ्यनुज्ञातः प्रव्रज्यायै समाप्तप्रतिज्ञः “ नाहं समणो होई अम्मापिअरंमि जीवन्ते ' इति गर्भावस्थागृहीताभिग्रहस्य वर्षद्वयावस्थानाभिग्रहस्य च पारगमनात् । पुनरपीति- विशेषद्योतने एकं तावत्समाप्तप्रतिज्ञः स्वयमेव, पुनरपि लोकान्तिकदेवैर्बोधितः इति विशेष्वे गम्यते । लोकान्ते भवा लोकान्तिका ब्रह्मलोकवास्तव्याः । साररस्सय माइच्चा वही वरुणाय गद्दतोया य । तुसिआ अव्वाबाहा अग्गिच्चा चैव रिठ्ठा य ॥ १ ॥ इति नामानो देवविशेषा । न च भगवान् तदुपदेशमपेक्षते स्वयं बुद्धत्वात्, किन्तु तेषामयमाचारः इत्येतदेवाह - जीतं - अवश्याचरणीयं कल्पितं कृतं यैस्ते जीतकल्पितास्तैः, जीतेन वाऽवश्यं भवेन कल्प इति कर्त्तव्यता जीतकल्पः स एषां अस्तीति जीतकल्पिकास्तैर्वि भक्तिव्यत्ययात् ते लोकान्तिका देवताभिरिष्टादिविशेषणोपेताभिः वाग्भि-गीर्भिरनवरतं भगवन्तं अभिनन्दयन्तः समृद्धिमन्नमाचक्षणा अभिदुवन्तश्च-गुणकीर्त्तनया एवमवादिषुर्व्यजिज्ञपन् । इष्टादीनां व्याख्या प्राग्वत् नवरं गम्भीराभिर्महाध्वनिभिः अपुनरुक्ताभिरिति व्यक्तम् ।। ११० ॥
जय जय नंदा! जय जय भद्दा ! भद्दं ते जय जय खत्तिअवखसहा ! बुज्झाहि भगवं ! लोग नाहा ! सयलजगज्जीवहियं पवत्तेहि धम्मतित्थं हिअसुअनिस्सेयसकरं सव्वलोएसव्वजीवाणं भविस्सइ ति कट्टु जय जय स पजति ॥ १११ ॥