________________
कल्प
७४
महाध्वनिर्नादितं च प्रतिशब्दस्तद्रुपो यो रवस्तेन । उस्सुक्कमित्यादि उच्छुल्कां - उन्मुक्तशुल्कां स्थितिपतितां करोतीति सम्बन्धः शुल्कं विक्रेतव्यभाण्डं प्रति मण्डपिकायां राजदेयं द्रव्यं । उत्करां-मुक्तगवादिकरां, उन्मुक्त कृष्टं - कर्षणं यस्यां लभ्येऽप्याकर्षणाऽभावात्, उत्कृष्टां प्रधानां वा, अदेयां विक्रयनिषेधेन केनाऽपि कस्यापि न देयमित्यर्थः, अमेयां- क्रयविक्रयनिषेधादेव, अविद्यमानो भटानां राजाज्ञादायिनां भट्टपुत्रादिपुरुषाणां प्रवेश: कुटुम्बिगृहेषु यस्यां सा तां दण्डेन निवृत्तं दण्डिमं कुदण्डेन निर्वृत्तं कुदण्डिमं राजद्रव्यं तन्नास्ति यस्यां सा तथा तत्र महत्यपराधेऽल्पं राजग्राह्यं कुदण्डो यथाऽपराधे तु राजग्राह्यं द्रव्यं दण्डः । अविद्यमानं धरिमं ऋणद्रव्यं यस्यां सा तथा तां, गणिकावरै- विलासिनीप्रधानैर्नाटकीयै
प्रतिबद्धाः कलिता या सा तां, अनेकतालाचरानुचरितां प्रेक्षाकारिविशेषानुसेवितां, अनुडुता आनुरुप्येण वादनार्थमुत्क्षिप्ता अनुडुता वा वादनार्थमेव वादकैरत्यक्ता मृदङ्गा मर्दला यस्यां सा तां, अम्लानानि माल्यदामानि पुष्पमाला यस्यां सा तां, प्रमुदितो- हृष्टः प्रक्रीडितः - क्रीडितुमारब्धः सह पुरजनेन जानपदो - जनपद लोको यस्यां । दशदिवसान् यावस्थितौ कुलमर्यादायां पतिता अन्तर्भूता या पुत्रजन्मोत्सव सम्बन्धिनी वर्डापनिका प्रक्रिया सा स्थितिपतिता ताम् ॥ १०२ ॥
तणं सिद्धत्थे राया दसाहिआए ठिइवडिआए वट्टमाणीए, सइए असाहस्सिए अ सयसाह - स्सिए य जाए य दाए अ भाए अ दलमाणे अ दवावेमाणे अ । सइए अ साहस्सिए अ, सय
दीपिका
७४
७४