________________
तथा च सङ्ख्या सूचकं, वचः । सौवर्गा राजता रात्नाः, स्वर्णरूप्यमया अपि । स्वर्णरत्नमयाश्चापि, रूप्यरत्नमया अपि ॥ २१ ॥ स्वर्णरूप्यरत्नमया, अपि मृत्स्नामया अपि । कुम्भा प्रत्येकमष्टाढ्यम्, सहस्रं योजनाननाः ॥ २२ ॥ पणवीसजोअणुत्तुङ्गो, बारसजोयगाईं वित्थारो । जोअणमेगं नालुअ इगकोडिअ सट्ठिलक्खाई ॥ २३ ॥ तथान्यैश्च । क्षीरनीरभृतैर्वक्षः स्थलस्थैस्त्रिदशा बभ्रुः । संसारौषं तरीतुं किं धृतकुम्भा इव स्फुटम् ॥ २४ ॥ सिञ्चन्त इव भावद्रुम्, क्षिपन्तो वा निजं मलम् । कलश स्थापयन्तो वा धर्मचैत्ये सुरा बभुः ॥ २५ ॥ समुद्रोदकमानं तन्नीरमालोक्य वासवः । साशङ्कः समभूच्चित्ते, कथं सोढा लघुर्ह्यऽसौ ॥ २६ ॥ संशयं त्रिदशेशस्य, मत्वा वीरोऽमराचलम् । वामाङ्गुष्ठाग्रसंपर्कात्समन्तादप्यचीचलत् ॥ २७ ॥ कम्पमाने गिरौ तत्र, चकम्पेऽथ वसुन्धरा । शृङ्गाणि सर्वतः पेतु- चुक्षुभुः सागरा अपि ॥ २८ ॥ ब्रह्माण्डस्फोटसदृशे, शब्दाऽद्वैते प्रसर्पति । रुष्टः शक्रोऽवधेर्ज्ञात्वा, क्षमयामास तीर्थपम् ॥ २९ ॥ सङ्ख्याऽतीतार्हतां मध्ये, स्पृष्टः केनापि नाङ्घ्रिणा । मेरुः कम्पमिषादित्यानन्दादिव ननर्त सः || ३० ॥ शैलेषु राजता मेऽभूत्, स्नात्रनीराभिषेकतः । तेनामी निर्जरा हाराः, स्वर्णापीडो जिनस्तथा ॥ ३१ ॥ अच्युतेन्द्रस्तत्र पूर्व, विदधात्यभिषेचनं । ततोऽनु परिपाटीतो, यावच्चन्द्रार्यमादयः ॥ ३२ ॥ चतुर्वृषभरूपाणि, शक्रः कृत्वा स्वयं ततः । शृङ्गाष्टकक्षरत्क्षीरै-रकरोदभिषेचनम् ॥ ३३ ॥ सत्यं ते विबुधा देवाः, यैरन्तिमजिनेशितुः । सृजद्भिः सलिलैः स्नानं, स्वयं नैर्मल्यामददे ॥ ३४ ॥ समङ्गलप्रदीपं ते, विधायाऽऽरात्रिकं पुनः । सनृत्यगीतवाद्यादि, व्यधुर्विविधमुत्सवम् ॥ ३४ ॥
३१