SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ दीपिका कल्प था . Lal 12 अन्यैरपि घनैर्देवैर्वतः सिंहासनस्थितः । गीयमानगुणोऽचालीदपरेप्यमरास्ततः॥६॥ देवेन्द्रशासनात्केऽपि, केचिन्मित्रानुवर्तनात् । पत्नीभिः प्रेरिताः केचिद्, केचिदात्मीयभावतः ॥७॥ केपि कौतुकतः केपि, विस्मयात्केऽपि भक्तितः । चेलुरेवं सुराः सर्वे, विविधैर्वाहनैयुताः॥८॥ सिंहस्थो वक्ति हस्तिस्थं, दूरे स्वीयं गजं कुरु । हनिष्यत्यन्यथा नूनं, दुर्द्धरो मम केसरी ॥९॥ वाजिस्थं कासरारूढो, गरुडस्थो हि सर्पगम् । छागस्थं चित्रकस्थोऽथ वदन्त्येवं तदादरात् ॥१०॥ सुराणां कोटिकोटिभि-विमानैर्वाहनैपनैः । विस्तीर्णोऽपि नभोमार्गोऽतिसङ्कीर्णोऽभवत्तदा ॥११॥ नन्दीश्वरे विमानानि, संक्षिप्याऽगात्सुराधिपः। जिनेन्द्रम् च जिनाम्बां च, त्रिः प्रादक्षिणयत्ततः॥१२॥ वन्दित्वा च नमस्यित्वे-त्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्न-कुक्षिधारिके ! विश्वदीपिके ॥ १३ ॥ अहं शक्रोऽस्मि देवेन्द्रः, कल्पादाद्यादिहागमम् । प्रभोरन्तिमदेवस्य, करिष्ये जननोत्सवम् ॥ १४ ॥ भेतव्यं देवि! तन्नवे-त्युक्त्वाऽवस्वापिनीं ददौ । कृत्वा जिनप्रतिबिम्बम् , जिनाम्बासनिधौ न्यधात् ॥१५॥ भगवन्तं तीर्थकरं, गृहीत्वा करसम्पुटे । विचक्रे पञ्चधा रूपं, सर्वश्रेयोऽर्थिकः स्वयम् ॥ १६ ॥ एको गृहीततीर्थेशः, पार्श्वे द्वौ चात्तचामरौ । एको गृहीतातपत्रः, एको वज्रधरः पुनः ॥१७॥ शक्रः सुमेरुशृङ्गस्थं, गत्वाऽथो पाण्डुकं वनम् । मेरुचूला दक्षिणेना-तिपाण्डुकम्बलासने ॥१८॥ कृत्वोत्सङ्गे जिनं पूर्वा-भिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः, स्वामिपादान्तमैयरुः ॥ १९ ॥ मृन्मणि-स्वर्ण-रूप्यादि-निर्मितैोजनाननैः । अष्टोत्तरसहस्रस्तैः शुभैः कुम्भैः पृथक् पृथकू ॥२०॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy